Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 26
________________ २२ पञ्चभिरञ्चितोऽयं प्राणो भवेत् प्राणमयस्तुकोषः । येनात्मवानन्नमयोऽन्न पूर्णात् प्रवर्त्ततेऽसौ सकल - क्रि यातु ॥ १६८ ॥ नैवात्मापि प्राणमयो वायु विकारो गन्ता गन्ता वायु वदन्तर्बहिरेषः । यस्मात् किञ्चित्वापि न वेत्तीष्ट मनिष्टं खं वान्यं वा किञ्च न नित्यं परतन्त्रः ॥ १६६ ॥ ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात् कोषोममाहमिति वस्तु विकल्प हेतुः । संतादि भेद कलना कलितो बलीयां स्तत् पूर्व्वकोष मभिपूर्य्यविजृम्भते यः ॥१७०॥ पञ्चेन्द्रियैः पञ्चेभिरेव होतृभिः प्रचीयमानो विषयाज्यधारया । जाज्वल्य मानो बज्हुवासनेन्धनै मनोमयाग्निर्दहति प्रपञ्चं ॥ १७१ ॥ न ह्यस्त्य विद्यामनसोऽतिरिक्ता मनो विद्या भवबन्धहेतुः । तस्मिन् विनष्टे सकलं विनष्टं विजृम्भितेऽस्मिन् सकलं विजृम्भते ॥ १७२ ॥ स्वप्नेर्थ शून्ये सृजति स्व शक्त्या मोक्लादि विश्वं मनएव सर्वम् । तथैव जाग्रत्यपिनो विशेषस्तत सर्व्वमेतन्मनसो विजृम्भणस् ॥ १७३ ॥ सुषुप्तिकाले मनसि प्रलीनेनैवास्ति किञ्चित् सकल प्रसिद्धेः । अतो मनः कल्पित एवपुं सः विवेकचूडामणिः

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82