Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 60
________________ वृत्तिः ॥ ४१८॥ अखण्डानन्दमात्मानं विज्ञायख खरूपतः । किमिच्छन् कस्यवाद्धेतोर्देहं पुष्णाति तत्त्ववित्॥ ४२० ॥ संसिद्धस्य फलत्वेतज्जीवन्मुक्तस्य योगिनः । वहिरन्तः सदानन्दरसा खादनमात्म नि ॥ ४२१॥ वैराग्यस्य फलं बोधो बोधस्योपरतिःफलम् । खानन्दानुभवाच्छान्ति रेषैवोपरतेः फलम् ॥४२२॥ यद्युत्तरोत्तराभावः पूर्व्व पूर्व्वन्तु निष्फलम् । निष्टत्तिः परमा तृप्ति रानन्दोऽनुपमः खतः ॥ ४५३॥ दृष्टदुःखेष्वनुद्वेगो विद्यायाः प्रस्तुतं फलम् । यत्कृतं भ्रान्ति वेलायां नानाकर्म्म जुगुप्सितम् । पश्चान्न रो विवेकेन तत्कथं कर्त्तुमर्हति ॥ ४२४ ॥ विद्याफलं स्यादसतो निवृत्तिः प्रवृत्तिरज्ञानफलं तदीक्षितम् । तज्ज्ञाज्ञयोर्यन्मृगदृष्णि कादो नोचेद्दिदां दृष्टफल' किमस्मात् ॥ ४२५ ॥ - अज्ञान हृदयग्रन्थे विनाशो यद्यशेषतः । अनिच्छो विषयः किन्नु प्रवृत्तेः कारणं खतः ॥ ४२६ ॥ वासनानुदयोभोग्ये वैराग्यस्य तदा वधिः। अहंभाबोदयाभावो वोधस्य परमावधिः । लीनवृत्तेरनुत्पत्तिर्मर्य्यादो परते स्तुसा ॥ ४२७ ॥ विबेकचूडामणिः

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82