Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 8
________________ २ विदग्धमुखमण्डनकाव्यम् । क्षिप्रावबोधकरणक्षममीक्षितार्थ वक्ष्ये विदग्धमुखमण्डनमप्रपञ्चम् ॥ ७ ॥ यद्यस्ति सभामध्ये स्थातुं वक्तुं मनस्तदा सुधियः । ताम्बूलमिव गृहीत्वा विदग्धमुखमण्डनं विशत ॥ ८ ॥ उद्देशकम् | प्राहुर्व्यस्तं समस्तं च द्विर्व्यस्तं द्विः समस्तकम् । तथा व्यस्तसमस्तं च द्विर्व्यस्त कस मस्तकम् ॥ ९ ॥ सद्विः समस्त कव्यस्त मे कालापं प्रभिन्नकम् । भेद्यभेदकमोजस्वि सालंकारं सकौतुकम् ॥ १० ॥ प्रश्नोत्तरसमं पृष्टप्रश्नं भग्नोत्तरं तथा । आदिमध्योत्तराख्ये द्वे अन्त्योत्तरमतः परम् ॥ ११ ॥ कथितापतिं चैव विषमं वृत्तनामकम् । नामाख्यातं च तायं च सौत्रं शाब्दीयशास्त्रजे ॥ १२ ॥ वर्णवाक्योत्तरे तद्वच्छ्रोकोत्तरमतः परम् । खण्डपादोत्तरे चक्रं पद्मं काकपदं तथा ।। १३ ॥ गोमूत्र सर्वतोभद्रं गतप्रत्यागतं बहु | वर्धमानाक्षरं तद्वद्धीयमानाक्षरं तथा ॥ १४ ॥ शृङ्खलां नागपाशं च चित्रं संशुद्धमेव च । प्रहेलिका तथा हृद्यं कालसारादिवर्णितम् ॥ १५ ॥ अजमारादिकं गूढं पदपादार्थगूढकम् । स्तुतिनिन्दां तथा व्यर्थ सहाहुतिविन्दुमत् ॥ १६ ॥ क्रियाकारकसंबन्धगुप्तान्यामत्रितस्य च । गुप्तं तथा समासस्य लिङ्गस्य वचनस्य च ॥ १७ ॥ मात्राबिन्दु विसर्गाणां च्युतकान्यक्षरस्य च । स्थानव्यञ्जनयोश्चापि च्युतदत्ताक्षरं तथा ॥ १८ ॥ इत्युद्देशकम् । पृष्टं पदविभागेन केवलेनैव यद्भवेत् । विदुर्व्यस्तं समस्तं यत्समुदायेन पृच्छति ॥ १९ ॥ पृष्टमिति । पृथक् पृच्छयते तत् व्यस्तं पृष्टम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56