Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 32
________________ विदग्धमुखमण्डनकाव्यम् । विख्यातौ वाहनो को द्रुहिणमुरभिदो : कीटगाखेटकस्त्री कीदृङ्गैवाचिराभा समिति गतभयाः के गतौ कश्च धातुः ॥२२॥ हारावी || कस्त्याग इति ठोकद्वये एकोनविंशतिपृष्टानि सन्ति । हारावीत्यक्षरत्रयेष्वेकोनविंशत्युत्तराणि ज्ञेयानि धीमद्भिः । हारावीत्यतएव हा इति 'ओहाकू त्यागे' ॥ १ ॥ आरा 'आरा चर्मप्रभेदिका' चर्मकाराणां चर्मवेधनशस्त्रम् । शत्रूणां हृदि आरासदृशं दुःखं वर्तते ॥ २ ॥ हाराः पुष्पाणां मुक्तानां च हाराः प्रसिद्धाः ॥ ३ ॥ अहावी न विद्यते हावो मुखविकारो यस्यासौ अहावी । दुःखिनो जनस्य मुखे दावो हास्यादिविक्रिया न भवेदित्यभिप्रायः ॥ ४ ॥ हा हा इति खेदे ॥ ५ ॥ वी उश्च इश्च वी । उः ईश्वरः । इः कामः । ईश्वरानङ्गयोर्वैरं प्रसिद्धमेवास्ति । अनङ्गो हि रुद्रेण दग्धः ॥ ६ ॥ हावी मुखविक्रियाहास्यादियुक्तः ॥ ७ ॥ अवीरा वीरैः सुभटैः रहिता । अवीरा सेना भनक्ति ॥ ८ ॥ रा 'रा दाने' रा इत्ययं धातुर्दानेऽस्ति ॥ ९ ॥ अवी मेषौ ऊर्णा ॥ १० ॥ श्लोकः ॥ अवीहा अप्सुजले ईहा वाञ्छा यस्याः सा अबीहा ॥ ११ ॥ राः द्रव्यम् ॥ १२ ॥ राहौ विधुंतुदे प्रहे ॥ १३ ॥ ई लक्ष्मीः ॥ १४ ॥ वी विश्व विश्व वी पक्षिणौ । हंसगरुडावित्यर्थः । ब्रह्मणो वाहनं हंसः कृ. ष्णस्य वाहनं गरुड इति प्रसिद्धम् ॥ १५ ॥ वीहा विषु पक्षिषु ईहा वाञ्छा यस्याः सा ॥ १६ ॥ वीरा विगता इरा जलं यस्यां सा वीरा । जलरहिता न भवतीत्यर्थः ॥ १७ ॥ वीराः योद्धारः ॥ १८ ॥ ' हा ओहाङ् गतौ ॥ १९ ॥ एते सर्वेऽप्यर्थाः हारा बीत्येतेष्वेव वर्णेषु भवन्त्यत एव सर्वतो भवतीति सर्वतोभद्रं नाम यथार्थम् ॥ इति सर्वतोभद्रजातिः । २६ प्रतिलोमानुलोमाभ्यामुत्तरेण गतागतम् । मध्यवर्णविलोपेन तच्चानेकप्रकारकम् ।। २३ ॥ गतं च प्रत्यागतं च गतप्रत्यागते ते विद्येते यस्मिन् तत् गतप्रत्यागतं प्रश्नोतरम् ॥ वद वल्लभ सर्वत्र साधुर्भवति कीदृशः । गोविन्देनानसि क्षिप्ते नन्दवेश्मनि काभवत् ॥ २४ ॥ क्षीरनदी || अनेकप्रकारकं भवति । क्षीरनदी एतच पदं प्रतिलोमं वाच्यम् । प्रतिलोमो वामवाचना, अनुलोमो दक्षिणवाचना च । दीनरक्षी इत्येवं स्यात् । अस्या• यमर्थः । दीनान् दुःस्थान् भिक्षाचरादीन् रक्षत इत्येवंशीलो दीनरक्षी । दीनपालक इत्यर्थः । क्षीरनदी क्षीरं दुग्धं तस्य नदी जाता । द्वितीयवारं अनुलोमं वाच्यम् ॥ यत्नादन्विष्य का ग्राह्या लेखकैर्मसिमल्लिका | घनान्धकारे निःशङ्कं मोदते केन बन्धकी ॥ २५ ॥ नालिकेरजा ॥ नालिकेराज्जाता नालिकेरजा । नालिकेरफलं प्रसिद्धम् । तद्वृ• क्षसक्तपत्रान्तः शलाकाया लेखनी समीचीना भवेत् । एतदेव प्रतिलोमं वाच्यते । जारकेलिना । उपपतितु जारः स्यात् । जारेण सह केलिः क्रीडा तया ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56