Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji
View full book text
________________
चतुर्थः परिच्छेदः ।
४७ यादितत्पुरुषः समासः । नित्यमाराधिता देवैरित्यत्र नित्यमाः नित्यं मा लक्ष्मीर्यस्यां सा। बहुव्रीहिः॥
इति समासगुप्तम्।
इयमेका जातिः। नितान्तस्वच्छहृदयं सखी प्रेयान्समागतः । त्वां चिरादर्शनप्रीत्या यः समालिङ्गय रंस्यते ॥ ५४॥ कलिकालमियं यावदगस्त्यस्य मुनेरपि ।
मानसं खण्डयत्यत्र शशिखण्डानुकारिणी ॥ ५५ ॥ नितान्तखच्छहृदयमित्यत्र नितान्तमतिशयेन स्वच्छं निर्मलं हृत् हृदयं यस्य सः नितान्तखच्छहृत् इति पुंलिङ्गनिर्देशः । कलिकालमियमित्यत्र इयं अगस्त्यस्य वृक्षस्य कलिका अलं अत्यन्तं मुनेः मनः खण्डयति । कलिका इति स्त्रीलिङ्गनिर्देशः॥
इति लिङ्गगुप्तम् ।
इयमप्येका जातिः। प्रमोदं जनयत्येव सदारा गृहमेधिनः ।
यदि धर्मश्च कामश्च भवेतां संगताविमौ ॥ ५६ ॥ सदारा इत्यत्र राः इति प्रथमैकवचनं सुबन्तम् । गृहमेधिन इति षष्ठी ॥
सुब्वचनगुप्तम्।
इयमेका जातिः। कस्मात्त्वं दुर्बलासीति सख्यस्ता परिपृच्छति ।
त्वयि संनिहिते तासु दद्यात्कथय सोत्तरम् ॥ ५७ ॥ अतिशयेन पृच्छन्तीति परिपृच्छति । इति यङ्लुगन्ते अन्तिपरतो रूपमस्ति । इदमेव रूपमेकवचनं ज्ञायते न तु बहुवचनेन अतः तिवचनगुप्तम् ॥
इति तिवचनगुप्तम्।
इतिमप्येका जातिः। अन्योऽप्यर्थः स्फुटो यत्र मात्रादिच्युतकेष्वपि । प्रतीयते विदुस्तज्ज्ञास्तन्मात्राच्युतकादिकम् ॥ ५८॥
महाशयमतिस्वच्छं नीरं संतापशान्तये ।
खलवासादतिश्रान्ताः समाश्रयत हे जनाः ॥ ५९॥ यत्र प्रश्ने मात्राबिन्दुविसर्गाणां च्युतकेषु कृतेषु सत्सु द्वितीयोऽर्थः प्रकटो झायते तत् मात्रादिच्युतकादिकम् । च्युतकशब्देन कुत्रचित्स्थाने नाशः कुत्रचित् विनिमयः। 'सालटो पालटो' इति भाषा। मात्राच्युतकं आदिर्यस्मिन् तत् मात्राच्युतकादिकम् । आदिशब्देन 'मानाबिन्दुविसर्गाणां च्युतकान्यक्षरस्य च । स्थानव्यानयोश्चापि' इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 51 52 53 54 55 56