Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji
View full book text
________________
विदग्धमुखमण्डनकाव्यम् । एकस्मिन्नर्थे नीरं जलम् । द्वितीयेऽर्थे नीरशब्दस्य ईकारस्थाने अकारः क्रियते । तदा नरं इत्यवशिष्यते ॥
तुषारधवलः स्फूर्जन्महामणिधरोऽनघः ।
नागराजो जयत्येकः पृथिवीधरणक्षमः ॥ ६० ॥ नागराजः शेषनागः एकस्मिन्नर्थे । द्वितीयेऽर्थे नागराज इत्यस्य आकारस्थाने अकारः क्रियते । तदा नगराज इति स्यात् । हिमाचलः ॥
इति मात्राच्युतकम् ।
इयमेका जातिः। सुश्यामा चन्दनवती कान्तातिलकभूषिता ।
कस्येषानङ्गभूः प्रीतिं भुजङ्गस्य करोति न ॥ ६१ ॥ एकस्मिन्नर्थे अनङ्गभूः कामस्य स्थानं ईदृशी स्त्री । द्वितीयेऽर्थे अठेवारो लुप्यते तदा नगभूः पर्वतस्य मलयाचलस्य भूमिः ॥
यथा सत्प्रसवः स्निग्धः सन्मार्गविहितस्थितिः ।
तथा सर्वाश्रयः सत्यमयमेव कुलद्रुमः ॥ ६२ ।। एकस्मिन्नर्थे अयं मे मम । बकुलद्रुमः अशोकवृक्षः । बवयोरैक्यम् । द्वितीयेऽर्थे अयमेव कुलद्रुम इत्यत्रायमित्यस्मादनुखारस्त्याज्यः तदायमेव फुलम इति स्थितम् । अयं पुमान् कुले तुम इव हुमो वृक्षः॥
___ इति बिन्दुच्युतकम् ।
इयमप्येका जातिः । महीरुहो विङ्गानामेते हृद्यैः कलापिनाम् ।
विरुतैः स्वागतानीव नीरवाहाय कुर्वते ॥ ६३ ॥ एकस्मिन्नर्थे हृद्यैः तृतीयाविभक्तिः । मनोहरैर्विरुतैः शब्दैः । द्वितीयवार हृयैरित्यत्र विसर्गलोपे कृते हृद्यैकलापिनां इति जातम् । हृद्यं सुन्दरं एक अद्वितीयं लपन्ति वदन्ति ते हृद्यैकलापिनस्तेषां विङ्गानाम् ॥
अगस्त्यस्य मुनेः शापाद्ब्रह्मस्पन्दनमास्थितः।।
महासुः खात्परिभ्रष्टो नहुषः सर्पतां गतः ॥ ६४ ॥ एकवार महासुः महान्तोऽसवः प्राणा यस्य सः । खात् आकाशात् । द्वितीयवारं सुरित्यत्र विसर्गलोपे कृते महासुखात् महच्च तत्सुखं च तस्मात् राज्यात् ॥
इति विसर्गच्युतकम् ।
इयमेका जातिः। महानपि सुधीरोऽपि बहुरत्नयुतोऽपि सन् ।
विरसः कुपरीवारो नदीनः केन सेव्यते ॥ ६५ ॥ नदीनां इनः खामी नदीनः समुद्र इत्येकस्मिन्नर्थे । द्वितीयेऽर्थे नदीन इत्यस्मात् नकारः सखरो लुप्यते तदा दीन इति तिष्ठति । दीनशब्देन कृपणधनी पुमान् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 52 53 54 55 56