Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji
View full book text
________________
चतुर्थः परिच्छेदः । सुशीलः स्वर्णगौराङ्गः पूर्णचन्द्रनिभाननः ।
सुगतः कस्य न प्रीति तनोति हृदि संस्थितः ॥ ६६ ॥ एकस्मिन्नर्थे सुगतो बुद्धः जिनः । द्वितीयेऽर्थे सुगत इत्यस्मात् गकारः सखरो लुप्यते । तदा सुत इति स्यात् । सुतः पुत्रः ॥
इति अक्षरच्युतकम् ।
इयमप्येका जातिः । तनोतु ते यस्य फणी गरुत्मान् पाणौ मुरारिर्दयिता च शय्या । नाभौ स्फुरन्भद्रमशुभ्रदेहः पद्मागतिश्चक्रमसौ विधाता ॥ ६७ ॥ हरः क्षयी तापकरः सुरेशः शान्तो हरिर्गोत्ररिपुर्विवस्वान् । चन्द्रो द्विजिह्वाश्रित इत्युपेक्ष्य लक्ष्म्या वृतः पातु विधिर्जगन्ति ६८ कर्तृकर्मक्रियापदानि स्थानान्तरे धृतलात् अन्वयो दुर्लभो यस्य वृत्तस्य तदृत्तं स्थानच्युत कथ्यते । एवं सर्वत्रापि द्रष्टव्यम् । एवं येषां श्लोकानां मध्ये अर्थयोजनिकायां कृतायां सत्यां योजनिका स्थानान्तरे धृतास्ति यो यस्य शब्दस्यान्वयत्वेन लगति स शब्दस्वत्पाद्यं धृतो नास्ति । अत एव स्थानच्युतकम् ॥
इति स्थानच्युतकम् ।
इयमेका जातिः । भिक्षवो रुचिराः सर्वे रसाः सर्वजनप्रियाः।
क्षमायामभिसंपन्ना दृश्यन्ते मगधे परम् ॥ ६९ ॥ एकस्मिन्नर्थे भिक्षवः श्वेताम्बराः । द्वितीयेऽर्थे भिक्षव इति पदाद्भकारलोपः क्रियते तदा इक्षव इति गुडवृक्षाः ॥
सत्यशीलदयोपेतो दाता सुचिरमत्सरः ।
जिनः सर्वात्मना सेव्यः पदमुथैरभीप्सता ॥ ७० ॥ एकस्मिन्नर्थे जिनो वीतरागः । द्वितीयेऽर्थे जिन एतस्माजकारो लुप्यते तदा इन इति स्थितम् ॥
इति व्यञ्जनच्युतकम् ।
इयमेका जातिः। स्फोटयित्वाक्षरं किंचित्पुनरन्यस्य दानतः ।
यत्रापरो भवेदर्थश्श्युतदत्ताक्षरं हि तत् ॥ ७१ ॥ च्युते नाशे सति तस्मिन्नेव स्थाने दत्तं अक्षरमन्यत् यस्मिंस्तत् च्युतदत्ताक्षर पृष्टम् ॥
सदागतिहतोच्छ्रायस्तमसो वश्यतां गतः । अस्तमेष्यति दीपोऽयं विधुरेकः शिवे स्थितः ॥ ७२ ।। पूर्णचन्द्रमुखी रम्या कामिनी निर्मलाम्बरा । तनोति कस्य न स्वान्तमेकान्तमदनातुरम् ॥ ७३ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 53 54 55 56