Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji
View full book text
________________ 50 विदग्धमुखमण्डनकाव्यम् / एकस्सिबर्ये दीपः। द्वितीयेऽर्थे दीप इत्यत्र पकारं लुप्खा तत्स्थाने नकारो हीयते तदा दीन इति / अयं दीनो विधुश्चन्द्रः एक एव शिवे स्थितः / एकस्मिन्नर्थे कामिनी ली। द्वितीयेऽर्थे यामिनी रात्रिः॥ - इति च्युतदत्ताक्षरजातिः। अम्बरमम्भसि पत्रमरातिः पीतमहीनगणस्य ददाह / यस्य वधूस्तनयं गृहमब्जा पातु स वो हरलोचनवह्निः // 74 // इति स्थानच्युतकम्। कृतिस्तु धर्मदासस्य सौगतस्य तपखिनः। . विदग्धानां मुखाम्भोजप्रविकासकरी परा // 5 // इति चतुर्थः परिच्छेदः / इति श्रीधर्मदाससूरिविरचितं विदग्धमुखमण्डनं काव्यं सटीकं समाप्तम् / - . 1 यस्य अम्भसि गृहं जलशायित्वात् / यस्य अम्बरं वस्त्रं पीतं नित्यं पीताम्ब. रपरिधानात् / अहीनः सर्पराजस्तगुणस्यारातिर्गरुडः यस्य पत्रं वाहनम् / यस्य च वधूः बी अन्जा लक्ष्मीः। किंच यस्य तनयं कामं हरलोचनवधिः ददाह स विष्णुः वः पातु / एवमस्य स्थानच्युतकस्य गतिः संपद्यते। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 54 55 56