Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 52
________________ विदग्धमुखमण्डनकाव्यम् । सरसीतोऽयमुद्धृत्य जनः कंदर्पकारकम् । पिबत्यम्भोजसुरभि स्वच्छमेकान्तशीतलम् ॥ ४५ ॥ अलिनो भ्रमरात् । सरसीतः सरोवरात् ॥ ४६ इत्यपादानगुप्तम् । या कटाक्षच्छटा पातैः पवित्रयति मानवम् । एकान्ते रोपितप्रीतिरस्ति सा कमलालया ॥ ४६ ॥ विपद्यमानता सिद्धा सर्वस्यैव निरूष्मणः । यथात्र भस्मपद्भ्यां च निर्वाणं हन्त्ययं जनः ॥ ४७ ॥ ए कृष्णे । कान्ते भर्तरि । एवं सप्तमी गुप्ता । विपद्यमानतेत्यत्र विपदि कष्टे ॥ इत्यधिकरणगुप्तम्। इति कारकगुप्तजातिः । तूणेव मधुमासेऽस्मिन्सहकारद्रुमश्वरी । इयमुनिद्रमुकुलैर्भाति न्यस्तशिलीमुखा ॥ ४८ ॥ प्राप्तमदो मधुमासः प्रबला रुक्प्रियतमोऽपि दूरस्थः । असती संनिहितेयं संहृतशीलासखी नियतम् ॥ ४९ ॥ उन्निद्रमुकुला एः इति भिन्ने पदे क्रियेते । इः कामस्तस्य एः षष्ठ्येकवचनम् । अत्र मासः चन्द्रस्य ॥ संबन्धगुप्तम् । एका जातिः । सर्वज्ञेन त्वया किंचिन्नास्त्यविज्ञातमीदृशम् । मिथ्यावचस्तथा च त्वमसत्यं वेत्सि न क्वचित् ॥ ५० ॥ कमले कमले नित्यं मधूनि पिवतस्तव । भविष्यति न संदेहः कष्टं दोषाकरोदये ॥ ५१ ॥ सर्वं जानातीति सर्वज्ञस्तस्य इनः खामी तत्संबोधनं हे सर्वज्ञेन हे पण्डितश्रेष्ठ, कमले के अले इति पदच्छेदः । हे अले हे भ्रमर ॥ इत्यामन्त्रित गुप्तम् । इयमप्येका जातिः । . विषादी भैक्ष्यमश्नाति सदारोगं न मुध्यति । रुष्टेनापि त्वया वीरशंभुनारिः समः कृतः ।। ५२ ॥ नित्यमाराधिता देवैः कंसस्य द्विषतस्तनुः । मण्डलाम्रं गदाशङ्खं चक्रं जयति बिभ्रती ॥ ५३ ॥ विषं कालकूटं अत्ति सः विषादी । दारैः सह वर्तमानः सदारः । उभयत्र द्विती Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56