Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji
View full book text
________________
२४
विदग्धमुखमण्डनकाव्यम् ।
अपित्तं गवि कीदृशं निगदितो मुक्तः पुमान्कीदृशः कस्माद्विभ्यति कौशिका भुवि कृतः कीदृक्त्वया तस्करः । हस्ती स्यान्ननु कीदृशो बहुमतः शोच्यो रणः कीदृशः कीदृक्षः पुरुषः पराप्रतिहतः कीदृग्भवेद्वासुकिः ॥ १५ ॥
अलयः । अपश्यत् । अरयः । अररे । अबन्धः । अहस्तः । अगजः । अहीनः ॥ अलयः ए कृष्णे लयो ध्यानविशेषो यस्य सः । अलयो भ्रमराः । अपश्यत् 'शीङ् खप्ने' 'अद भक्षणे' शी शयनं अत् भक्षणं शीश्च अच्च श्यती अपगते इयती शयनभक्षणे अस्यासौ अपश्यत् । मच्छत्रुः रात्रौ शयनं दिवसे चादनं न करोति । भयभीतत्वात् । न पश्यति विलोकयति तत् । अपश्यत् । अरयः शत्रवः । अरयः नास्ति रयो वेगो यस्य सः । अररे अरे इत्यर्थे अररे इति निपातः । अरे नीच हीनसंबोधने दीयते । अररे कपाटे । 'कपाटमररं तुल्ये' इत्यमरः । अर्थात् कपाटे दत्ते सतिगृहान्तस्तस्करादेर्भयं न भवेदित्यभिप्राय: । अबन्धः अपां पानीयानां अन्धो भक्षणं यस्य तत् सकारान्तः । नास्तिबन्धो रज्वादेबंन्धनं यस्यासौ अबन्धः । बन्धनरहित इत्यर्थः । अहस्तः दिवसात् । नास्ति हस्तौ यस्यासौ अहस्तः हस्ताभ्यां रहितः । अगजः अगेषु पर्वतेषु जातोऽगजः पर्वतसंबन्धी । न विद्यन्ते गजाः हस्तिनो यस्मिन् सः अगजः । हस्तिरहिता सेना शोभां न लभते इत्यर्थः । अहीनः न होनो हीनः नः । समर्थ इत्यर्थः । अहीनः अहीनां सर्पाणां इनः स्वामी ॥ इति पद्मोत्तरजातिः ।
काकस्येव पदं त्र्यत्रं यत्तत्काकपदं मतम् ।
काकस्य पदं चरणाकृतिरिव व्यस्रं पदं आकारो यस्मिन् तत्काकपदं प्रश्नोत्तरम् ॥ कुतः कः स्यात्कीहक्कथय विषवैद्य स्फुटमिदं
रिपोः कः कीदृक्षो भवति वशगः कश्च कलभः । प्रवीणः संबोध्यः सुभग वद कौ रत्नवचनौ
सुरूपे विख्यातिं जगति महतीं का गतवती ॥ १६ ॥
नागदतः । नागतनयः । नागरमणी ॥ नागदरतः नागानां सर्पाणां दरो भयं तस्मात्, ना पुमान् अगदरतः अगदेषु विषापहारेषु औषधेषु रतः आसक्तः । अयममिप्रायः — यदा नागेभ्यो भयं भवेत्तदा मनुष्योऽगदरतो विषवैद्यः स्याज्जाङ्गुली विद्याविशारदः स्यात् । कुतश्चित्सर्पकीलनमन्त्रं पठेत् । ना पुमान् गतनयः गतस्त्यक्तो नयो न्यायो नीतिरूपं येनासौ । नागतनयः नागानां हस्तिनां तनयः पुत्रः । हे नागर हे विचक्षण । मणी चन्द्रकान्तिप्रमुखौ हीरकौ । नागरमणी नागानां नागकुमार देव विशेषाणां रमणी स्त्री । तासां तौ सौन्दर्यविशेषेण श्वाध्येते ॥ काकपदजातिः ।
तिर्यगन्योऽन्यरेखाभिर्गोमूत्र द्विपदी द्वये ॥ १७ ॥ गोर्वृषभस्य मूत्रं वक्रगत्या जायते तद्वद्वन्धो यस्याः सा गोमूत्रीप्रश्नोत्तरम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56