Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji
View full book text
________________
२२
विदग्धमुखमण्डनकाव्यम् ।
विकचवारिजराजिसमुद्भवोच्छलितभूरिपरागविराजितं । हे विकच विगताः कचाः केशा यस्य सः तत्संबोधनम् । हे वालरहित । वारि जलम् । महाप्रलये हरिः शेषशय्यायां समुद्रजले शेते । जरा वृद्धत्तम् । आजिसमुत् आजो संग्रामे समुत् सहर्षः। भवः संसारः । हे अच्छलित हे अवञ्चित । भूः पृथ्वी । इप. रा इ. कामस्तेन परा उत्कृष्टा नित्ययौवनवती । गवि वाण्याम् । राः द्रव्यम् । जितं सुगमम् । विकचवारिजराजिसमुद्भवोच्छलितभूरिपरागविराजितं विकचानां प्रफुल्लितानां वारिजानां कमलानां राजिः पतिस्तस्याः समुद्भव उत्पन्न उच्छलितो यो भूरिः प्रचुरः परागः सौगन्ध्यं तेन विराजितं शोभितम् ॥
श्लोकात्पादातदुत्तरम् । पादः श्लोकचतुर्थाश एव उत्तरं यस्मिन् तत्पादोत्तरं पृष्टम् ॥ बिभर्ति वदनेन किं क इह सत्वपीडाकरं
कुलं भवति कीदृशं गलितयौवनं योषिताम् । बभार हरिरम्बुधेरुपरि कां च केन स्तुते
हतः कथय कस्त्वया नगपतेर्भयं कीदृशात् ॥ ८॥ विषमपाद निकुंजगताहितः॥ विषं गरलम् । अपात् न सन्ति पादाश्चरणा यस्य सः सर्पः । अनि नास्ति इ. कामो यस्मिन् तत् अनि कंदर्परहितम् । कुं पृथ्वीम् । जगता संसारेण । अहितः शत्रुः । विषमपादनिकुञ्जगताहितः विषमाणां दुर्गमाणां पादानां प्रत्यन्तपर्वतानां निकुञ्जेषु गहनस्थानेषु गता अहयः सर्पा यस्मिन् सः विष• मपादनिकुञ्जगताहिस्तस्मात् यत्र पर्वते शिलाया अधस्तात्सपीः निर्गच्छन्ति ततः पर्वताद्विभीयते॥
हरिर्वहति कां तवास्त्यरिषु का गता कं च का
कमर्चयति रोगवान्धनवती पुरी कीदृशी । हरिः कमधरद्धलिप्रभृतयो धरां किं व्यधुः
कया सदसि कस्त्वया बुध जितोऽम्बुधिः कीदृशः॥ ९ ॥ कुंभीरमीनमकरागमदुर्गवारिः ॥ कुं पृथ्वीम् । भीः भयम्। ई लक्ष्मीः। अं विष्णुं गता । इनं सूर्यम् । अकरा नास्ति करो राजदण्डो यस्यां सा । अगं गोवर्धनपर्वतम् । अदुः ददति स्म । गवा वाण्या वादेन कृतारिः प्रतिवादी जितः । कुम्भीरमीनमकरागमदुर्गवारिः कुम्भीरा नकाश्च मीना मत्स्याश्च मकराश्च कुम्भीरमीनमकरास्तेषां आगमौ आगमनगमने ताभ्यां कृता दुर्ग दुस्तरं वारि जलं यस्यासौ । ईदृशः समुद्रो भवति ॥
इति पादोत्तरजातिः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56