Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji
View full book text
________________
तृतीयः परिच्छेदः । हरति । उत्तरम्-सरिसवहुया सदृश्शी समानवयोगुणा वधुका स्नुषा भतुमनो हर. तीति भावार्थः । तथा कयचड इति । कृतः चटचटदिति शब्दो यैस्ते हुता अग्नयः कीदृशा भवन्ति । उत्तरम्-तैरेवाक्षरैर्भिन्नार्थेन । सरिसवहुया सर्षपैर्हताः। सिद्धार्थे तो हुताशनश्चटचटायते चटचटशन्दं कुरुते ॥
इति शुद्धप्राकृतम् । पाणिग्गहणणियंसणु सोहइ कहिं मंडिउं ।
साहसवदुवि वीर पइरिपुबलं केहिं खंडिउं ॥ ६२ ॥ समरंगणेहिं ॥ अथ शुद्धापभ्रंशी भाषा दर्यते-पाणिग्गहणेति । पाणिग्रहणस्य विवाहस्य निवसनं वस्त्रं कैर्मण्डितं शोभितम् । उत्तरम्-समानरङ्गकरणैः तुल्यरङ्गप्रदानेन । तथा हे वीर साहसवदुवि साहसेन युकमपि प्रतिरिपुबलं सैन्यं कैः कृता खण्डितं छेदितम् । लयेति शेषः । उत्तरं तदेव । समरंगणेहिं संग्रामाङ्गणैः मया वैरिबलं भन्ममिति भावार्थः॥
रसिअह केण उच्चाडण किजइ
जुय इह माणसु केण उविजइ । तिसिय लोउ खणि केण सुहिज्जइ
एह पहो मह भुवणे विजइ ।। ६३ ॥ नीरसराएण ॥ रसिअह केण इति । रसिकानां शुमारादिनवरसविज्ञानाम् । अथवा श्रीरागादिषदत्रिंशद्रागरस विज्ञानाम् । केनोच्चाटनुद्विमचित्तता क्रियते । उत्त. रम्-नीरसराएण नीरसश्चासौ रागश्च नीरसरागस्तेन । दुःखरेण रसिका उद्विजन्ति उद्वेगं प्राप्नुवन्तीत्यर्थः । तथा युवत्याः नवयौवनायाः स्त्रिया मानसं चित्तं केनोद्विज्यते। उत्तरम्-नीरसरागेण नीरसेन शारादिरसरहितेन यो रागः संबन्धस्तेन । अथवा निर्गतो रसो बलं पुरुषार्थत्वं वा नीरसो वृद्धः तस्य रागेण । युवत्यै तु वृद्धो न रोचते । तथा तृषितो लोकः क्षणं क्षणमात्रं स्तोककालं केन सुखी क्रियते । उत्तरम्-नीर. शरावेण नीरस्य जलस्य शरावः पात्रं कोशिका तेन । कोशिकाप्रमाणमपि जलं तृषितस्य क्षणं सुखयति । तथा एहपहेति । एतदयं मम प्रश्नः भुवने केन गीयते । जगत्रितयमध्ये गीयत इत्यर्थः । उत्तरम्-नीरसरागेण नितरां रसो नीरसः, विशेषेण रसयुक्तो रागः सौकण्ठ्यं यत्रासौ नीरसरागस्तेन । अतिसुकण्ठरागेण मम गृहे गीयत इत्यर्थः । एवमस्यार्थचतुष्टयं ज्ञायते ॥
इति शुद्धापनंशम्। सुयलो मेहं पुच्छइ मेहो विअ तं वहा सुयलं ।
केण या सयलसुया केण जणो विसइ पायालं ॥ ६४ ॥ बलाहकविलेण ॥ अथ शुद्धमागधीभाषामाह-मुयलो मेहमित्यादि । शुकरो मेधं पृच्छति । तथा मेघोऽपि तं शूकरं पृच्छति । उभयोः प्रश्नमाह-सगरसुताः सगरचक्रवर्तिनः पुत्राः केन हता इति शूकरेण मेघः पृष्टः। मेघः कथयति उत्तरम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56