Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 42
________________ विदग्धमुखमण्डनकाव्यम् । बलाह कविलेण हे वराह हे शूकर, कपिलेन ऋषिणा । तथा मेघः शूकरं पृच्छतिकेण जणो विसइ पायालं जनो लोकः पातालमधोलोक केन विशति । शूकरः कथयति । उत्तरम्-हे बलाहक हे मेघ, विलेन भूमिद्वारेण । भूमिद्वारेण पाताललोके प्रविश्यते॥ धवलुजलेहिं केहिं सोहइ धरणी मसाणदेसस्स ।। नरयस्स रचाई नाकर्हि समप्पतिनिहितं कताइपि ॥ ६५ ॥ नलकलंकेहिं ॥ धवलुजलेहिमिति । स्मशानदेशस्य धरणी पृथ्वी धवलोज्जवलैः कैः शोभते । उत्तरम्-नलकलंकेहिं नराणां मनुष्याणां करकैरस्थिपञ्जरैः । अत्र रकारस्थाने लकारः । तथा नरकस्य रक्षपालाः कैः परिवेष्टिता भवन्ति । तैरेवाक्षरैः नरकस्य रंकैर्वराकैः ॥ इति शुद्धमागधिकम् । वेरी पुच्चदि ककने रायति कसनो घनो कहिंख । कच्चाई ना कहिं समप्पति निहितं कताई पि ॥ ६६ ।। अहितपक्खेहिं ॥ अथ शुद्धपैशाची भाषोच्यते-वेरी पुच्चदि इत्यादि । वैरी पृच्छति कृष्णः श्यामो घनो मेघो गगने आकाशे कैः कृता राजति इति पृष्टे उत्तरम् --अहितपक्खेहिं हे अहित हे शत्रो, पक्खे हिं पक्षीहिंति । संस्कृतं पक्षिभिरिति । बलाकाप्रभृतिपक्षिभिः शोभते । तथा कच्चाई इति निहितं निश्चितं कृतान्यपि कृत्यानि कार्याणि कैन समाप्यन्ते । अयं भावार्थ:--संजातमपि कार्य कैर्भङ्गमापद्यते न समा• प्यते समाप्तभावं नापद्यते । अत्रोत्तरम्-तदेव । अहितपक्षिभिः शत्रुपक्षीयैरेवार्थाः भज्यन्ते ॥ पत्तून किं फटचनो निचतेहताना अत्थासनं फचति चंफनिसूतनस्स । भोत्तून खोरतरतुक्खसताइ पावा __ मोहान्धकारगहनं लप किं लफन्ति ।। ६७ ।। विसमरणं ॥ पत्तून किमित्यादि वसन्ततिलकाच्छन्दः। अस्य भाषाश्लोकस्य संस्कृ. तश्लोको लिख्यते-प्राप्याथ किं भटजनो निजदेहदानादर्धासनं भजति जम्भनिषूद. नस्य । भुक्त्वा च घोरतरदुःखशतानि पापा मोहान्धकारगहनं वद किं लभन्ते ॥ भाषा--लोकस्य व्याख्या-फटचनो भटजनः निचतेहताना निजस्यात्मनो देहस्य दानात् किं पत्तून किं प्राप्य चंफनिसूतनस्स जम्भनिषूदनस्य इन्द्रस्य अत्थासनं अर्धासनं फचति भजति इत्येवं शब्दार्थः । उत्तरम्-विसमरणम् । विषमं च तत् रणं संप्रामश्च विषमरणं तत् विषमरणम् । रणशब्दो नपुंसकलिङ्गेऽप्युकः। कठिनसंग्रामं प्राप्य योद्धा इन्द्रस्यार्धासन सेवते । संग्रामे देहदानात् खर्गप्राप्तिरिति पौराणिका वदन्ति । तथा पावा पापाः । खोरतरतुक्खसताइ घोरतरदुःखशतानि भोत्तून भुक्ता मोहान्धकारगहनं मोहो अज्ञानमेवान्धकारस्तेन गहनं निबिडं किं फलन्ति किं प्राप्नुवन्ति । हे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56