Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 40
________________ विदग्धमुखमण्डनकाव्यम् । संस्कृतजल्पनादिशास्त्रकलहाः । हे वे हे पक्षिन् । यतोऽर्थः अतोने लौकिकभाषाजाणच्चीए इति । अल्यार्थः जाया महिला स्त्री हि णची नर्तयितुं ए एस इमद आयाति सावि अपि निश्चितं कीसे कीदृक् बोल्लेइ जल्पति । उत्तरम् अएचम्मारं. वदावेहि । अए इति आमन्त्रणे । चम्मारं ढोलम् । वादावेहि वादय । अस्य संस्कृतम्-अये मृदङ्गं वादय । अहं नर्तयामि । त्वं वायं वादयेति जल्पन्ती आगच्छेत् ॥ शब्दः कः स्यात्पुरुषवचनं कुण्डली को स्मरारेः कामाम्भोघेहेरिरुदहरद्वीवधः पृच्छतीदम् । हांडी कुण्डी अणिसि नरडा कीस अह्मार एत्थं जो पुच्छिल्ला स पुण परिहारुत्तरं कीस देइ ॥ ५९ ॥ नाहीकुंभार ॥ ना पुमान् । अही सपौ । कुं पृथ्वी । हे भार । अग्रे लौकिक. भाषा-हांडी कुंडी इत्यादि । नरडा इति नरसंबोधनम् । अ ब्रह्मार । एत्थमस्मदर्थी। हांडीकुंडी लोकभाषा । हंडिकाः भाण्डानि कुंडिकाः कुण्डानि । कीस कथम् । अणिसि नानयसि इत्येवं जो पुच्छिल्ला यः पृच्छेत् । तस्य स पुण सः श्रोता तं पुनः परि. हारुत्तरं प्रत्युत्तरं कीस देइ कीदृक् ददाति । अस्या एकीभूतं संस्कृतम् । हे नर, अस्मदर्थ हंडिकाः कुंडिकाः कथंचन आनयसि एवं यः पृच्छेत् तस्य सः श्रोता तं प्रति पुनः प्रत्युत्तर कीहक् ददाति । उत्तरम् -नाही कुंभार नास्ति कुंभारः कुंभकारं विना भाण्डानि कुत आनयामीत्युत्तर दीयते । इति संस्कृतयुक्तलोकिकभाषोदाहरणं दर्शितम् ॥ इति संस्कृतलौकिकं । इति चित्रजातिः। एकभाषायाः संशुद्धं प्रश्नोत्तरम्को निवसइ सच्छंदं सुंदर गिरिगहणकुंजमब्भम्मि । सह अजुणेण जोज्झुं शिहिगमणो केरिसो होइ ।। ६० ॥ सरभससवराहवग्गो॥ अथ शुद्धप्राकृतम्-को निवसइ इति । व्याख्याहे सुन्दर सुभग, गिरेगहने पर्वतस्य कठिने कुन्जमध्ये खच्छन्दं खेच्छया को निव. सति । उत्तरम्-समग्रेण । सरभससवराहवग्गो शरभा अष्टापदाः, शशाः प्रसिद्धाः, वराहाः सूकराः, तेषां वर्गः समूहः । कुछे निलीनस्तिष्ठति । 'निकुञ्जकुजौ वा क्लीवे लतादिपिहितोदरे' इत्यमरः । तथा सह अज्जुणेणेति । शिखी मयूरो गमनं यस्य सः शिखिगमनः कार्तिकेयोऽर्जुनेन सह योद्धं युद्धं कर्तुं कीदृशो भवति । उत्तरम् - तैरेवाक्षरैः । सरभसाः वेगवन्तः ईदृशाः ये शबराः भिल्लास्तैः सार्ध आहवे संग्रामे गच्छतीति आहवग्गः आहवाग्योगामी वा ॥ का हरइ मणं पइणो गुणगणजुव्वणशलाहणिज्जुस्स । कयचडचडत्ति सद्दा हूयासा केरिसा हुंति ॥ ६१ ।। सरिसवहुया ॥ का हरइ इति । गुणानां गणेन समूहेन यौवनेन च श्लाध्यस्य च पुनरार्यस्य श्रेष्ठकुले जातस्य । आर्यपुत्रस्येत्यर्थः । ईदृशस्य पइणो पत्युमनः का Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56