Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 38
________________ विदग्धमुखमण्डनकाव्यम् । मत्स्य हितमम्बु कीहक्पृच्छति रोगी निशासु किं भाति । कोऽनङ्गो वदति मृगः खे गम्मइ केरिसा रइणा ॥ ५१॥ अविसामभमिरेण ॥ अवि न विद्यन्ते वयः पक्षिणो यस्मिन् तत् पक्षिरहितम्। बकादिपक्षिणो मत्स्यान् नन्ति । हे साम हे सरोग । आमो रोगस्तेन सहवर्तमानः तत्संबोधनम् । भं नक्षत्रं । हे एण हे मृग । इः कामः अनङ्गः । अप्रे प्राकृतरीत्या चोच्यते-खे गम्मइ केरिसा रइणा । अस्य संस्कृतम्-आकाशे गम्यते कीदृशेन सूर्येण इति । उत्तरम्-अविसामभमिरेण अविश्रामभ्रमिणा । अविश्रामा विश्रामरहिता भ्रमिभ्रमणं यस्य स तेन । भ्रमिशब्दस्य भमिर इत्यादेशःप्राकृतभाषायाम् । विधामर. हितभ्रमणशील: सूर्यो गगने भ्रमन कुत्रापि तिष्ठतीति तात्पर्यम् । इति संस्कृतयुक्तप्राकृतोदाहरणम् ॥ - इति संस्कृतप्राकृतजातिः। प्रायो बिभ्यति कीदृशादरिगजादन्तप्रहीना गजाः पृथ्वी संप्रति कीदृशी नृपतिना राजन्वती राजते । प्रायः प्रावृषि कीदृशी गिरितटी धत्ते च कः कञ्जले मज्झन्ने चलिए घणूअशदिणे जादं सरो केरिसं ।। ५२ ।। सरदादवताविबाहिरं ॥ सरदात् रदाभ्यां दन्ताभ्यां सहवर्तमानः सरदस्त. स्मात् निर्दन्तेन गजेन सदन्तहस्तिना सह योद्धुमशक्यमिति भावः । अवता 'अव रक्ष पालने' अवतीत्यवनः तेन अवता रक्षता । विदवा विगतो दवो वनवहिर्यस्यां सा। अहिः शेषनागः । अं विष्णुं । अग्रे अपभ्रंशभाषया मज्झने इत्यादि । अस्य संस्कृ. तम्-मध्याहे चलिते घनात्यय दिने जातं सरः कीदृशम् । उत्तरम्-सरदादवताविदबाहिरं । शरदातपतापितं बाह्यं । शरद आतपेन तापितं बाह्यं बहिर्भागो यस्य तत् ॥ कृत्तं कीदृशमङ्गं दन्तभमं कं वदन्ति विद्वांसः। अतिलघुवाचि पदं किं के रिसु सुयणेसु होइ जणो॥ ५३ ॥ वित्रंतमणु ॥ विस्रं 'पूतिगन्धस्तु दुर्गन्धो विसं स्यादामगन्धि यत्' इत्यमरः । पूतिगन्धमदित्यर्थः । तं तकारं 'लुतुलसानां दन्ताः' इति वचनात्तकारो दन्त्यः । अणु स्तोकं वा । अणुः परमाणुः । अग्रे चतुर्थपादेऽपभ्रंशभाषा । केरिसु इति । अस्य संस्कृत तम्-कीदृशः स्वजनेषु भवति जनः । उत्तरम्-विषेतमणु विश्रान्तं विश्वस्त मनो यस्यासौ । इति संस्कृतयुक्तापभ्रंशोदाहरणम् ॥ इति संस्कृतापभ्रंशजातिः। किं सुखमाहुः प्रायः केशविकारं च का हरेर्दयिता । कथमाभा कस्मिन्निशि को लुच्चइ वीलपुलिशाणं ।। ५४ ॥ शमलकंमालंभे ॥ शं सुखं अलकं 'अलकाचूर्णकुन्तलाः' इत्यमरः। मा लक्ष्मीः अलं अतिशयेन भे नक्षत्रे । अतःपरंमागधीभाषा-को लुच्चइ वीलपुलिशाणमिति । अस्य संस्कृतम्-को रोचते वीरपुरुषेभ्यः । उत्तरम्-शमलकमालमे समरकर्मारम्भः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56