Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 36
________________ विदग्धमुखमण्डनकाव्यम् । भवति जयिनी काजौ सेनाह्वयाधरभूषणं वहति किमहिः पुष्पं कीदृकुसुम्भसमुद्भवम् । महति समरे वैरी वीर त्वया वद किं कृतः ___ कमलमुकुले भृङ्गः कीदृनिबन्मधु राजते ॥४३॥ परागरंजितः॥ परा उत्कृष्टा । हे राग । पूर्ववदत्रापि पाश्चात्यो वर्णस्त्यज्यतेऽतनो गृह्यते । गग आरक्तत्वम् । अधरस्य आरक्ततैव प्रशस्यते । गर गरलं रंजि रंजतीत्येवं शीलं तत् रंगयुक्तं । 'रंज रागे । जितः सुगमम् । परागरंजितः परागेण केसरेण रंजितः प्रीणितमनाः । लोहमयशृङ्खलाकटकवत् अन्योन्यमक्षराणि संकल्पन्तेऽतः शृङ्खलाजातिः ॥ इति शृङ्खलाजातिः। आह्वानं किं भवति हि तरोः कस्यचित्प्रश्नविज्ञाः प्रायः कार्य किमपि न कलौ कुर्वते के परेषाम् । पूर्ण चन्द्रं वहति ननु का पृच्छति म्लानचक्षुः केनोदन्याजनितमसमं कष्टमाप्नोति लोकः ॥४४॥ नीरापकारेण ॥ नीरामकारेणेत्यस्मिन्नेकाक्षरपरिहारेण । अत्र द्वितीयो रा इति वर्णः परित्यज्यते । हे नीप हे वृक्ष विशेष । प्राग्वदेकान्तरितवर्णग्रहणेन परे अन्ये आत्मनः कार्याणि सर्वे कुर्वन्ति । परकार्यकृतु विरलः । राका पूर्णिमा । अत्र पूर्व ये वर्णाः परित्यक्तास्त एव योज्यन्ते । हे काण एकाक्ष । सर्वैरेवाक्षरैः नीरापकारेण नीरस्य जलस्य अपकारः अभावस्नेन । नीरं विना तृषा कष्टं ददाति ॥ का संबुद्धिः सुभट भवतो ब्रूहि पृच्छामि सम्यक् प्रातः कीदृग्भवति विपिनं संप्रवृद्धैर्विहंगैः । लोकः कस्मिन्प्रथयति मुदं का त्वदीया च जैत्री प्रायो लोके स्थितमिह सुखं जन्तुना कीदृशेन ॥ ४५ ॥ वीहारसेविना ॥ हे वीर । अत्रापि प्राग्वदेकान्तरिता एव वर्णा गृह्यन्ते । रवि रवः शब्दो विद्यते यस्मिन् तत् रवि शब्दयुक्तम् । त्यक्ताक्षरसंयोजन या उत्तरं कर्तव्यम् । हासे हास्ये । सेना सैन्यं । वीहारसेविना वीहार उपवनादिषु खेलनं देवा. यतनं जिनालयं वा वीहार सेवते इत्येवंशीलो वीहारसेवी तेन । अथवा वीहारस्य सेवा विद्यते यस्यासौ तेन । वीहारसेवायुक्तेन मनुष्येण सुखमनुभूयत इत्यर्थः । एकान्तरितवर्णग्रहणेनात्र शृङ्खलाबन्धस्य द्वितीयो भेदः ॥ इति एकान्तरितगृङ्खलाजातिः। ग्रन्थिमानागपाशकः ॥ ४६ ।। प्रन्थिमानागपाशकः यस्मिन्नागपाशबन्धे प्रन्थिबध्यते सः प्रन्थिमान् । नागानां सर्पाणां पाशबन्ध एव नागपाशकः प्रश्नोत्तरम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56