Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji
View full book text
________________
तृतीयः परिच्छेदः । समुद्यते कुत्र न याति पांसुला समुद्यते कुत्र भवं भवेजलात् । समुद्यते कुत्र तवापयात्यरिः प्रहीणसंबोधनवाचिकं पदम् ॥ ३८॥ हिमकरे ॥ हिमकरे चन्द्रे उद्गते सति उद्योतवादन्यत्र यातीति दृश्यते अतो न याति । तद्विधानां तासां बन्धकार एव समीचीनः । उक्कोत्तरमध्यात् हि इति प्रथमाक्षरत्यागेन कृत्वोच्यते।मकरे मकरे मत्स्ये उत्पन्ने सति । द्वितीयाक्षरत्यागेन वा. च्यते । करे हस्ते सायुधे ऊर्वीकृते सति शत्रुर्भज्यते । तृतीयाक्षरत्यागेन वाच्यते । रे रे दास' इति चामन्त्रणे । एवमादित एकैकाक्षरहान्या हीयमानं दर्शितम् ॥
तपस्विनोऽत्यन्तमहासुखाशया वनेषु कस्मै स्पृहयन्ति सत्तमाः । इहापि वर्णद्वितयं निरस्य भोः सदा स्थितं कुत्र च सत्वमुच्यताम् ३९ तपसे॥ तपोगुणाय । तपस्विनां हि तप एव प्रियं भवति । वर्णद्वयत्यागात्से इत्यवशिष्यते । सकारभावः सकारे वर्तते । अत्राक्षरद्वयहान्या हीयमानाक्षरोदाहरणं दर्शितम् ॥
पुरुषः कीदृशो वेत्ति प्रायेण सकलाः कलाः ।
मध्यवर्णद्वयं त्यक्त्वा ब्रूहि कः स्यात्सुरालयः ॥ ४० ॥ नागरिकः ॥ नागरिकः नगरनिवासी चतुरो वा । एतस्यैव मध्यात् गरीति वर्णद्वयं त्यज्यते तदा नाक इति स्यात् । नाकः खर्गः । अत्र मध्यवर्णद्वयहानिर्दर्शिता ॥
यजमानेन कः स्वर्गहेतुः सम्यग्विधीयते । विहायाद्यन्तयोर्वौँ गोत्वं कुत्र स्थितं वद ॥ ४१ ॥ यागविधिः॥ यजनं यागः यज्ञो दानं वा तस्य यथाप्रोक्तकरणं विधिः होमदान विधिरित्यर्थः । यागविधिरियेतन्मध्यात्प्रथमान्तिमवर्णं त्यज्यते तदा गवि इति तिष्ठति । गविशब्दे गोत्वं वर्तते । एवमाद्यन्तवर्णयोस्त्यागेन हीयमानाक्षरं दर्शितम्।।
इति हीयमानाक्षरजातिः। अन्योन्याक्षरवर्तिन्या चैकान्तरतयाथवा ।
शृङ्खलावन्ध इत्युक्तः शृङ्खलाया इव शृङ्खलाकारेण बन्धो रचनाविशेषः शृङ्गलाबन्धः इति प्रश्नोत्तरम् । पवित्रमतितृप्तिकृत्किमिह किं भटामत्रणं
ब्रवीति धरणीधरश्च किमजीर्णसंबोधनम् । हरिर्वदति को जितो मदनवैरिणा संयुगे ___ करोति ननु कः शिखण्डिकुलताण्डवाडम्बरम् ॥ ४२ ॥ पयोधरसमयः॥ पयो जलम् । पाश्चात्यवर्णत्यागात् अग्रेतनवर्णग्रहणेन वाच्यते । हे योध । अत्र पकारस्त्यक्तः । अग्रेतनधकारो गृहीतः । पाश्चात्यरीत्या हे घर हे पर्वत, हे रस हे अजीर्ण । पर्वतं प्रति अजीर्णसंबोधनं उक्तम् । हे सम म लक्ष्मीस्तया सह वर्तमानः समः तत्संबोधनं हे हरे । मयः मयो नामा कश्चिदैत्य विशेषो हरेण हत इति भावार्थः । पयोधरसमयः पयोधरस्य समयः कालः । मेघागमे हि मयूरा विशेषेण नृत्यन्ति ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56