Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji
View full book text
________________
. तृतीयः परिच्छेदः । विद्वन् , त्वं लप वद। अयमर्थः-पापिनो घोरं दुःखं भुक्ला बन्ते किं फलं लभन्ते। उत्तरम् । विसमरणं विषेण मरणं नाशं विषमरणम् । पापिनोऽन्ते विषं भुक्ता प्रिय. न्तेऽयमभिप्रायः॥
इति शुद्धपैशाचिकम् । जा नीयाणइ निंदे भिंभला सा किसि वुच्चइ बोल्ल रे संभाल । जो तिलसरिसव पीडइ जाण किसि भणिजइ सोवि प्राणी ॥६॥ सतेली ॥ अथ शुद्धलौकिकभाषामाह-जा नीयाण इत्यादि । या स्त्री निद्रया भिभला व्याकुला किंचित् नीयाणइ न जानाति संभलि हे सखि । इति श्रुखा प्रश्नोत्तरत्वं बोल रे वद । सा किसि वुवइ सा कीदृशी उच्यते । उत्तरम् । सुतेली सा सुप्तोत्थिता उच्यते । तया जो तिलसरिसव यो ज्ञात्वा तिलांश्च सर्षपांच पीडयति घाणियन्त्रेण तैलादि निष्कासयति सोवि नाणी सोऽपि ज्ञानी शिल्पिकः कीकू भण्यते उच्यते । अत्राप्युत्तरम्-सुतेल्ली । 'धूसरश्चाक्रिकतेली' इति वचनात् । लोके 'घांचीतेली' इति नाम प्रसिद्धम् ॥
इति शुद्धलौकिकम्।
इति संशुद्धजातिः ॥ एतावतापि दिमात्रं प्रश्नानां दर्शितं मया । येन येन हि माद्यन्ति तद्विदस्तत्तदृह्यताम् ॥ ६९ ॥
इति तृतीयः परिच्छेदः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56