Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji
View full book text
________________
૩૮
विदग्धमुखमण्डनकाव्यम् ।
चतुर्थः परिच्छेदः । व्यक्तीकृत्य कमप्यर्थ स्वरूपार्थस्य गोपनात् । यत्र बाह्यान्तरावर्थौ कथ्येते ताः प्रहेलिकाः ॥ १ ॥ प्रहेलिकानाम पृष्टम् ।
सा द्विधार्थी च शाब्दी च विख्याता प्रश्नशासने । आर्थी स्यादर्थविज्ञानाच्छाब्दी शब्द विभागतः ॥ २ ॥ तरुण्यालिङ्गितः कण्ठे नितम्ब स्थलमाश्रितः । गुरूणां सन्निधानेऽपि कः कूजति मुहुर्मुहुः ॥ ३ ॥
पानीय कुम्भः ॥ सा द्विधा आर्थी शाब्दी च । द्विप्रकाराया उदाहरणम् । श्लोकोक्तविशेषणैरुपेतः सः कः स्यात् हे विद्वन्, त्वं ब्रूहि किमुत्तरं दातव्यं विचार्यतामिति । एवं विशेषणानां भावे विचार्यमाणे ईदृशो युक्त्या भर्ता ज्ञायते । भर्तापि तण्या सोत्कण्ठमा लिङ्गयते । तथा कान्ताप्रियो भर्ता उभयथापि नितम्बस्थाने गुह्य प्रदेशे तिष्ठेत् । तथा च गुरूणां मातृपितृश्वश्रूश्वशुरजनानामप्रेऽपि स्त्रियं कामयते । इत्येवम• भिप्रायेण बाह्योऽर्थः । आभ्यन्तरस्तु पानीयकुम्भः । सोऽपि कूपसरोवरादौ जलेन भृत्वा शिरस्यारोपणसमये तरुण्या हस्ताभ्यामालिन्यते । प्राणादपि कान्तः प्रियः कक्षानितम्बस्थाने च गृह्यते । गुरूणां वृद्धघटानामुपर्युपविश्य कूजति बडबडायते अतो घट एवायं निश्चयीकृतः इत्येवमान्तरार्थः केनापि न ज्ञायते । एवमर्थस्य द्वैविध्यं दर्शितम् ॥
आपाण्डु पीनकठिनं वर्तुलं सुमनोहरम् ।
करैराकृष्यते ऽत्यर्थे किं वृद्धैरपि सस्पृहम् ॥ ४ ॥
i
पक्कबिल्वफलम् ॥ यत् श्रोकेनोकं तत् किं । हे श्रोतः त्वं ब्रूहि । उत्तरम् - प्रकटभावेन स्त्रियाः कुचयुगलमिति ज्ञायते । आन्तरार्थस्तु पक्वबिल्वफलमिति । इवि वाह्यान्तरार्थयोर्भेदेन आर्थी प्रहेलिका ॥
इत्यार्थी जातिः ।
दुर्वारवीर्य सरुपि त्वयि का प्रसुप्ता
श्यामा सपत्नहृदये सुपयोधरा च । तुष्टे पुनः प्रणतशत्रुसरोजसूर्ये
सैवाद्यवर्णरहिता वद नाम का स्यात् ॥ ५ ॥
शस्त्री ॥ शस्त्री लोहस्य छुरिका श्यामवर्णा लोहमयत्वात् । सुष्ठु पयो जलं धरति सा । लोहेषु पानीयं दीयते । पुनः सा एव शस्त्री आद्यवर्णेन शकारेण रहिता सती स्त्री इति तिष्ठति । कीदृशी स्त्री । श्यामा षोडशवार्षिकी । सुपयोधरा सुष्ठु पयोधरौ स्तनौ यस्याः सा । ईदृशी स्त्री त्वयि तुष्टे सति शत्रूणां हृदयोपरि खेलते शेते वा । इत्येवंशब्दस्य विभङ्गादक्षरस्य लोपात् द्वावर्थौ कृतौ । अत एव शाब्दी प्रहेलिका ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56