Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 46
________________ ४० विदग्धमुखमण्डनकाव्यम् । पाशासारी ॥ घरिघरि इति । व्याख्या-गृहे गृहे व्रजति प्रतिगृहं याति पर सकलजनप्रिया सा नारी जीवति यदा तदा वैरकरी विरोधकारिणी भवेदिति शेषः । क्षणेन बध्यते क्षणेन मुच्यते तथा जानीथ यूयं यथा क्षणेन एकाकिनी प्रेरिता सती नो याति । उत्तरम्-पाशासारी पाशकसारिका बन्धनदवरकेण युक्ता पोपटी काब• रिया भाषा । अथवा रमावाना पाशासहित सोंगटी इति भाषा । सा च पाशासारी गृहे गृहे काष्ठादौ व्रजति । यत्रैव याति तत्रैव प्रिया । सा च यावज्जीवति तावत् क्रीडाकतुर्वैरकरी दुःखदायका म्रियमाणा सुखाय स्यात् । क्षणेन बध्यते चलितुं न शक्नोति क्षणेन मुच्यते चलति एतद्रीत्यार्थद्वयं जातम् । इति शाब्दी लौकिकभाषा ॥ इति प्रहेलिकाजातिः। कालसारादिकं हृद्यमजमारादि गूढकम् । विदग्धो दुर्विग्धानां कुरुते दर्पशान्तये ॥९॥ कालश्च सारश्च कालसारौ तौ आदी यस्य तत्काल सारादिकं हृदि भवं हृद्यं नाम पृष्टम् ॥ अनुनेतुं मानिन्या दयितश्चरणे सरागचरणायाः । यावत्पतितः स तया तत्क्षणमवतारितः कस्मात् ॥ १० ॥ कालहृद्यं ॥ कालो रजस्वलत्वादिदिनं अवगम्यते । अस्यायं भावः-कालस्य च सारस्य च ज्ञानं हृदये स्थाप्यते पश्चात्पृच्छयते । अतएव हृद्य मिति पण्डितैरपि दुःखे. नावबुध्यते ईदृशया श्लोकोक्तयानया स्त्रिया यो दयितो दूरीकृतः । सः कस्मात्केन हेतुना। हे विद्वन् , त्वं ब्रूहि इति पृष्टम् । अत्र हेतुर्वक्तुर्हृदयस्थोऽप्यनुक्तेन ज्ञायते धीमद्भिरपि अतएव हृद्यम् । अत्र हेतुमाह-रजस्खलनात् स्त्रीधर्मत्वात् । अहमस्पृ. श्यास्मीति मां मा स्पृशेति विज्ञायावज्ञातो निजदयितहृयो भावः श्लोकमध्येन भवति रजखलाकालो हृद्य इति ॥ अवलोक्य स्तनौ वध्वा गुञ्जाफलविभूषणौ । निःश्वस्य रोदितुं लग्ना कुतो व्याधकुटुम्बिनी ॥ ११ ॥ सारहृद्यं ॥ एतच्च रोदनं तया कुतः कृतमिति प्रष्टव्यम् । हृद्योऽयं भावः गजादिवधे समर्थोऽयं मुक्ताफलानां हारं परिधापयेदिति पुत्रस्य गजादिवधेऽसमर्थत्वं विज्ञाय तया कुटुम्बिन्या वधूकुचावालोक्य निःश्वस्य च रुदितम् क्षीणबलत्वेन निजपुत्रस्यासमर्थत्वं विचारितम् । स्तनयोरारक्तत्वेन वध्वाः नवयौवनत्वं चिन्तित. मित्याकूतम् । पुत्रस्य असारतो रोदनहेतुः । स तु हृद्यः प्रष्टहृदयस्थः कथनं विना न ज्ञायते । इति सारहृद्यम् ॥ इति कालसारजातिः। दरदिचूयमउलं पिच्छिय सहि याहि विरहिणी सहियम् । नमिउं कंकेल्लितरू चूउं चरणाहदो कत्तो ॥ १२ ॥ . रागद्वेषहृद्यं ॥ लौकिकभाषया अन्यदपि हृद्यमेव दर्शयति-दरदिढेति । व्याख्या Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56