Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji
View full book text
________________
चतुर्थः परिच्छेदः । सदारिमध्यापि न वैरियुक्ता नितान्तरक्तापि सितैव नित्यम् । यथोक्तवादिन्यपि नैव दूतिका का नाम कान्तेति निवेदयाशु ॥६॥
सारिका॥ पुनरन्यप्रकारेण शब्दभाजनां दर्शयति-सदारिमध्येति। व्याख्याहे कान्त हे प्रिय भर्तः, त्वं आशु शीघ्रं इति पूर्वोक्तं निवेदय कथय । सा का नाम स्यात् । या सदा सर्वदा भरीणां मध्ये स्थितापि वैरिमियुक्ता न शत्रुभिर्युक्ता न वि. यते।'न वैरयुक्ता' इति पाठे वैरेण विरोधेन युक्ता नास्ति । एवं विरोधाभासः । उत्तरम्सारिका । अत्रैवं विरोधपरिहारेऽर्थो विधेयः । शारिका इति शब्दमध्ये अरिशब्दः वारिकारो वर्तते । परं कैश्वित्सार्धं वैरं नास्ति । पुनश्च या नितान्तं अतिशयेन रका रक्तवर्णापि नित्यं सिता श्वेतैव सा सिता कथमुच्यते । अत्रापि विरोधः । अत्रापि विरोधपरिहारेऽयमर्थो विधेयः । रकारककारयुक्तापि सितैव सकारेण इता युक्ता सिता । सारिका इत्यत्र सकाररकारककारवर्णाः सन्ति । कान्ता इति श्लोके कृते कान्तो यस्याः सा कान्ता । सारिका इति शब्दे अन्ते का इति वर्णो विद्यते । कान्ता कामनीया मनोहरा वा इत्येवं विशेषणत्रयोपेते सति सारिका इति शब्दः । 'रमवानी सोंगटी' इति भाषा घटते । कथम् । अरीणां रमणवतां मध्ये स्थितापि कैश्चित्साधे वैर नास्ति । परै सा उपरिभागे रक्ता अधोभागे श्वेता परं कान्ता सुन्दरा इति । तथा यथोक्तवादिन्यपि दूती नैव भवति यथा उच्यते तथा वदति । पर दूती सा न । अत्रापि विरोधः । दूतीधर्मस्त्वीदृश एव सारिका तु पापव्यमाना यथोक्तं पठति पर दूती न भवति । एषा सारिका कथ्यते । पोपटी काबरी इति भाषा । इयमपि शाब्दी प्रहेलिका ॥
इति शाब्दी जातिः। नीरस उण बहुगुणवंतउ भमइ निरंतर निञ्चल हुतु । तरुगिगिजिणउ पलुपत्रुतसु जो परिजाणइ पविसोजगिजसु ॥७॥ गुणवृकः ॥ अथ लौकिकभाषया शाब्दी प्रहेलिकां दर्शयति-नीरस इति । व्याख्या-नीरसः कः पुनर्बहुगुणवान् वर्तते । यो नीरसः सः गुणवान् कथमिति विरोधः । उत्तरम्-गुणवृकः । 'गुणवृक्षस्तु कूपकः' गुणैर्दवरकैर्बद्धो वृक्षो गुणवृक्षः । प्रसिद्धभाषया 'वहाणनो कुवाथंभ' सः च नीरे जले शेतेऽसौ नीरशयः । वा निर्गतः रसो यस्मात् सः नीरसकः । अतिशुष्कलात् बहुमिर्गुणैर्दवरकैर्बध्यते । अतो बहुगुणवान् । तथा भमइ निरंतर नित्यं भ्रमति परं निश्चलः सन् तिष्ठति । यश्चलन् सः निश्चलः कथं भवेदिति विरोधः । अत्रापि वाहनेन भ्रममाणेन सार्ध भ्रमति । आत्मना त्वेकत्रैव तिष्ठति । तथा तरूवृक्ष इति गीयते कथ्यते परं फलपत्रे न स्तः गुणवृक्ष इत्युच्यते फलं च पत्रं च न भवति । जो परिजाणइ यो नरोऽस्यार्थस्य परीक्षां खभावं जानाति स पुमान् बहुयशःप्राप्नोति इत्यक्षरार्थः॥ घरि घरि चल्लिइ सयलपियारी जीवंती वेरयरी साहो नारी । खणि बम्भइ खणि भुचि खणि एकली तह जाणसु बेह जाइ नी पिल्ली ८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56