Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji
View full book text
________________
विदग्धमुखमण्डनकाव्यम् ।
. अत्र विशेष्यपदं गूढम् स्वजन्मभक्षप्रियभोजनाशाः इति, विशेष्यपदं स्वस्माजन्म येषां तानि खजन्मानि खापत्यानि तानि भक्षयन्ति ते स्वजन्मभक्षाः सीस्ते एव प्रियाः भोजनस्य आशाः येषां ते ईदृशाः मयूराः इति मयूरनामगोपितम् । दर्दुर. हर्षकाले दुर्दुराणां मण्डूकानां हर्षकालो वर्षाकालस्तस्मिन् इति वर्षानाम गोपितम् । किंभूताः मयूराः । कुं पृथ्वी धरन्ति ते कुध्राः पर्वतास्तेषामिनः खामीः हिमाचलस्तस्य सूः पुत्री पार्वती तां प्रीणातीति प्रीमहादेवस्तस्य नयनस्थ आश्रयाशो नेत्रव. हिस्तेन दग्धो यः कामस्तेन उन्मदा उन्मत्ताः । अत्र मारस्य नाम गोपितम् । इति मारगूढम् ।।
इयमप्येका जातिः। वाताच्छीतिररिध्रोऽरं वो हरतान्महासुरीदयितः । वीडाबाज्यानौका वार्वाहाभोसमस्तानाः ॥ १६ ॥
___ अथ क्षेपकः श्लोकोऽयं । व्ययवासाः पञ्चशिराः यरि-नारिभूषणः ।
असिरोमा क्रियादुर्वः शङ्कालायनवीक्षणः ॥ १७ ॥ अत्र गूढार्थयोजना वर्तते । महासुरीदयित इत्यस्मात् ईदयित इति विशेष्यपदगुप्तं धुतमस्ति । अत्र क्रियादुर्व इत्यस्माद्वाक्यात् उरिति विशेष्यं गूढम् ॥ इति पदगूढम् ॥
पदगूढं। दयावान्प्रयतः शुद्धः प्रबुद्धः कमलेश्णः।
पापापहस्त्रिभुवनं बुद्धः पायादपायतः ॥ १८ ॥ अत्र बुद्धः पायात् इति चतुर्थः पादः पूर्वेषु त्रिषु पादेषु गुप्तोऽस्ति । कोऽर्थःचतुर्थपादस्य वर्णाः प्रथमद्वितीयतृतीयपादेष्वन्तर्गोपिताः सन्ति । सम्यग्विचार्य विलोकितव्याः॥
न मज्जति कचिद्दोषे प्रीणाति जगतो मनः।।
य एकः स परं श्रीमान् चिरं जयति सज्जनः ॥ १९ ॥ अत्रापि चतुर्थः पादो गूढः चिरं जयति सज्जन इति पाश्चात्यत्रिषु पादेषु योपितोऽस्तीति विचार्य सद्भिद्रष्टव्यः ॥ इति पादगूढम् ॥
पादगूढं । इयमप्येका जातिः। दृष्टो मया सखि ब्रूहि रोदयित्वा गतोऽद्य माम् ।
भद्रे कल्याणिनी भूयाः प्राची पश्य विनिर्मलाम् ॥२०॥ अत्र भावः कः । यथेयं प्राची निजभर्तुः सूर्यस्य विरहेण रात्रौ दुःखितापि अधुना सूर्योदये विकसिता सशोभा जाता तथा लमपि भर्तुरागमे विलासं प्राप्स्यसीति भावः सख्या ज्ञापितः॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56