Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 37
________________ तृतीयः परिच्छेदः। गोष्ठी विदग्धजनवत्यपि शोचनीया । ___ कीदृग्भवेत्तरणिरश्मिषु का सदास्ति दुर्वारदर्षदलितामरनायकापि कीदृश्यकारि सुरशत्रुचमूगृहेण ॥ ४७ ॥ तारकविरहिता ॥ प्रथमाक्षरद्वयत्यागेन वाच्यते । कविरहिता कविना पण्डिवेन रहिता । अन्याक्षरद्वयत्यागेन पश्चादानुपूर्व्या वाच्यते । रविकरता रवेः सूर्यस्य करता किरणभावः । अत्र प्राक् कविरहितेत्युत्तरं कृता पश्चात् रविकरता इत्युत्तरं कृतम् । एवं कविरवि एतयोर्मध्ये वि इति वर्णो नागपाशबद्धः। तत् बद्धत्वं च बन्धद. शेनाज्ज्ञेयं प्रश्नार्थविद्वद्भिरिति । तारकविरहिता तारकनामा दैत्यस्तेन विरहिता वियुक्ता कृता॥ कीहक्परैरुपहतो भवति क्षितीशः पृच्छत्यनुच्च इह किं विदितं पवित्रम् । विच्छिन्नपाणिचरणो जनको यदीयः - कीहक्परैरभिहितः स पुमान्पुनः स्यात् ॥ ४८ ॥ व्यंगतनयः॥ अत्राप्येकाक्षरपरिहारेण वाच्यते। गतनयः गतस्यको नयो न्यायो येनासौ अन्यायी राजा । अन्त्याक्षरैकत्यागेन पश्चादानुपूर्व्या वाच्यते।हे नत हे अप्रांशो वामन, गव्यं गोरिदं गव्यं गोमूत्रं गोमयं क्षीरं दधि सर्पिः इति पञ्च । व्यङ्गतनयः । विगतानि अङ्गानि हस्तादीनि यस्यासौ व्यङ्गस्तस्यायं तनयः पुत्र इत्युच्यते परैः । अत्रापि गतनत एतयोर्मध्यस्थप्रकारो प्रन्थिगत्या बाध्यतेऽत एव नागपाश:नागपाशजातिरिति।। इति नागपाशजातिः। भाषाभिश्चित्रितं यत्स्यात्संस्कृतप्राकृतादिभिः । सन्तश्चित्रं तदिच्छन्ति संशुद्धं त्वेकभाषया ॥४९॥ संस्कृतप्राकृतादिभिर्भाषाभिर्यचित्रितं रचितं स्यात् तत्पृष्टं चित्रं नाम । 'संस्कृतं प्राकृतं चैव सौरसेनी च मागधी । पैशाची चाप्यपभ्रंशः षड् भाषा विबुधैः स्मृताः॥ किं न स्यात्कीहक्षं महतोऽपि च तादृशस्य जलराशेः। दिणमणिकिरणप्फंसणपडिबुझं होइ किं गोसे ॥ ५० ॥ कमलवणं ॥ कं पानीयं अलवणं लवणं क्षारसस्तेन रहितं न भवति । समुद्रस्य जलं क्षारमेव भवेत् । सप्तानामपि समुद्राणां मध्ये प्रथमो लवणसमुद्रः । 'लवणक्षी. रदध्याज्यसुरेक्षुखादुवारयः' इति सप्त समुद्राः। इति संस्कृतेन पृष्टं संस्कृतेनोत्तरं दत्तम् । अथ प्राकृतेन पृच्छति प्राकृतेनैवोत्तरं ददाति-दिणमणीति । अस्य संस्कृतं लिख्यते 'दिनमणिकिरणस्पर्शनप्रतिबुद्धं भवति किं प्रातः' इति । उत्तरम्-कमलवणं कमबानो वनम् । वणमिति प्राकृतभाषा ॥ ४ विद. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56