Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 27
________________ तृतीयः परिच्छेदः । २१ लाला लाल इति प्रसिद्धम् । अपवाचा हीनवाण्या । हे अलस । हकारं मातृकायासु शषसह(ळ) इति हकारस्यान्त(स्योपान्त्य)वम् । अनः शकटम् । हरो रुद्रः । अशोकः शोकरहितः भ्राता। तव भवतो भवति (2)। काली संहारकी देवी नमत् नमनशी. लम् । हे तालि ताडनाम प्रसिद्धम् । मधुः मधुनामा दैत्यः। अखरः शब्देन रहितः। कोकिलालापवाचालसहकारमनोहरः कोकिलानां पिकानामालापेनान्योन्यजल्पनेन वाचालाः सशब्दा ये सहकारा आम्रवृक्षास्तैर्मनो हरति सः । अशोकस्तबकालीनमत्ता. लिमधुरस्वरः अशोकानां वृक्षविशेषाणां स्तबके गुच्छे आलीना अमिव्याप्ता ये मत्ता अलयो भ्रमरास्तेषां मधुरोऽतिमिष्टः खरो ध्वनिविशेषो यस्मिन्सः॥ इति श्लोकोत्तरजातिः। खण्डोत्तरं भवेदर्ध ___खण्डमर्धमेव उत्तरं यस्मिन् तत् खण्डोत्तरं पृष्टम् ॥ का चक्रे हरिणा धने कृपणधीः कीदृग्भुजंगेऽस्ति किं कीहक्कुम्भसमुद्भवस्य जठरं कीदृग्यियासुर्वधूः । श्लोकः कीगभीप्सितः सुकृतिनां कीङ नभो निर्मलं झोणीमाह्वय सर्वगं किमुदितं रात्रौ सरः कीदृशम् ॥ ६॥ कुमुदवनपरागरंजितांभोविहितगमागमकोकमुग्धरेखम् । कुमुद् पृथ्व्याः हर्षोऽकारि । पृथ्वी उद्धृता इत्यर्थः । अवनपरा अवनं रक्षणं धनस्य गोपनं तत्र परा सावधाना । गरं विषम् । जितानि पीतानि अम्भांसि जलानि येन तत् जिताम्भः। विहितगमा विहितः कृतो गमो गमनं यया सा । गमकः अर्थाभिप्रायेण गम्यते प्राप्यते सः गमकः । अकमुक् के पानीयं मुञ्चन्ति ते कमुचो मेघाः न विद्यन्ते कमुचो यस्मिन् तत् । मेधै रहितमित्यर्थः । हे धरे हे पृथ्वि । खं आकाशम् । कुमुदवनपरागरंजितांभो विहितगमागमकोकमुग्धरेखं कुमुदानां चन्द्रविकासिकमलानां वनानि तेषां परागेण मुष्ठुगन्धेन किंजल्केन वा रंजितं रणयुक्तं कृतं अम्भो जलं यसिंखत् ईदृशं सरः। प्रथमविशेषणम् । पुनः कीदृशम् । विहितौ निष्पादिती गमागमौ गमनागमने याभ्यां तो विहितगमागमौ तौ च तौ कोकौ च ताभ्यां कृला मुग्धा सुन्दरा रेखा पहिर्यस्मिन् तत् यतस्तौ चक्रवाकीचक्रवाकावन्योन्यं वियु. को सन्तौ रात्रौ मिलनाय तीरात्तीरं पर्यटतः । तयोर्गमनागमनेन जलरेखायाः भ. वात रात्रौ सर ईदृशं इति भावः ॥ मुण्डः पृच्छति किं मुरारिशयनं का हन्ति रूपं नृणां कीदृग्वीरजनश्च कोऽतिगहनः संबोधयावञ्चितम् । का धात्री जगतो बृहस्पतिवधूः कीहक्कविः काहतः कोऽर्थः किं भवता कृतं रिपुकुलं कीहक्सरो वासरे ॥७॥ इति खण्डोत्तरजातिः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56