Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji
View full book text
________________
द्वितीयः परिच्छेदः । विभाकरभवनम् ॥ विभा विगता भा कान्तिर्यस्याः सा । हे करभ उष्ट्र । वनम् । विभाकरभवनं विभाकरस्य सूर्यस्य भवनं गृहं तत् । सिंहराशिं गते जीवे लोका विवाहादिशुभकार्याणि न कुर्वन्ति । सिंहस्याधिपतिः सूर्यः॥
इति शास्त्रजजातिः। वर्ण एवोत्तरं यत्र तद्वोत्तरमुच्यते ।
वाक्यं यत्रोत्तरं तत्तु वाक्योत्तरमिति स्मृतम् ॥६६॥ वर्णः एकाक्षरमेव उत्तरं यस्मिन् तत् वर्णोत्तरं पृष्टम् ।।
कौ विख्यातावहेः शत्रू शोकं वहति किं पदम् ।।
कोऽभीष्टोऽतिदरिद्रस्य सेव्यन्ते के च भिक्षुभिः ॥ ६७ ॥ वीहाराः॥ 'अहेः शत्रू' इति पाठे विश्च विश्च वी गरुडमयूरौ । 'कौ शत्रू भुवि विख्यातौ' इति पाठे उश्च इश्च वी ईश्वरकंदौ । हा इति खेदे । राः द्रव्यम् । वीहाराः तीर्थभूमयः प्रासादाः देवायतनानि वा ॥
किं मुञ्चन्ति पयोवाहाः कीदृशी हरिवल्लभा।
पूजायां किं पदं कोऽग्निः कः कृष्णेन हतो रिपुः ॥ ६८॥ कंसासुरः ॥ कं जलम् । सा एन कृष्णेन सह वर्तमाना लक्ष्मीः । 'सुः पूजायाम्' । रोऽग्निः । कंसासुरः कंसासुरनामा दैत्यः ॥
इति वर्णोत्तरजातिः। वाक्यमेव उत्तरं यस्मिन् तत् वाक्योत्तरं पृष्टम् ॥ दधौ हरिः कं शुचि कीहगभ्रं
पृच्छत्यकः किं कुरुते सशोकः । श्लोकं विधायापि किमित्युदारः
कविन तोषं समुपैति भूयः ॥ ६९॥ अगमकमकरोदिति ॥ 'तिङ्सुबन्तचयो वाक्यम्' इत्यमरः। अगं गोवर्धनपर्वतम् । न विद्यते कं जलं यत्र तत् अकम् । हे अक न विद्यते कं सुखं यस्य सःहे दुःखिन् । रोदिति रोदनं करोति । अगमकमकरोदिति । एनं श्लोकं अगम्यं अकरोत् इति विचारयन् तुष्टो न भवति । इदं वृत्तं मयापि दुर्बोधम् ॥
लक्ष्मीधरः पृच्छति कीदृशः स्या.... मृपः सपत्नैरपि दुर्निवारः । अकारि किं ब्रूहि नरेण सम्यक
पितृत्वमारोपयितुं स्वकीयम् ॥ ७० ॥ समजनितनयः॥ हे सम मा लक्ष्मीस्तया सह वर्तमानः हे लक्ष्मीधर । हे धनवन् वा । हे कृष्ण । जनितः कृतो नयो न्यायो येन सः जनितनयः । समजनि तनयः तनयः पुत्रः समजनि उत्पादितः ॥
इति वाक्योत्तरजातिः।
इति द्वितीयः परिच्छेदः। ३ विद.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56