Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 24
________________ १८ विदग्धमुखमण्डनकाव्यम् । यमगंधने ॥ यमः कृतान्तः । अगं परिशेषाद्गोवर्धनम् । धने द्रव्ये । 'यमो गन्धने' पाणिनीयव्याकरणमध्ये इदं सूत्रमस्ति ॥ किं स्याद्विशेष्यनिष्ठं का संख्या वदत पूरणी भवति । नीचः केन सगर्वः सूत्रं चन्द्रस्य कीदृक्षम् ॥ ६० ॥ विशेषणमेकार्थेन विशेषणम् । एका । शून्यानां संख्यापूरक एकमेव भवति । एकादिरको लिख्यते तदा बिन्दूनां साफल्यं स्यादन्यथा शून्यमेव । अथवा एकद्विव्यादिका संख्या । अथवा ऊनानामेकत्रिपञ्चादीनां पूरण्येका एव संख्या समसंज्ञा की भवेदित्याकूतम् । अर्थेन द्रव्येण। 'विशेषणमेकार्थेन' इदं चान्द्रव्याकरणसूत्रमस्तीति ॥ इति सौत्रजातिः।। शब्दानामिदं शाब्दीयं व्याकरणम् ॥ शाब्दे भवं शाब्दीयं पृष्टम् ॥ न श्लाघते खलः कस्मै सुप्तिङन्तं किमुच्यते । लादेशानां नवानां च तिङां किं नाम कथ्यताम् ॥ ६१ ।। परस्मैपदम् ॥ परस्मै आत्मव्यतिरिक्तः परः अन्यस्मै न स्तौति । पदं पदसंज्ञ सुप्तिङन्तं पदं परस्मैपदम् । नवानां अपि तिङा तिप् तस् अन्ति इत्यादीनां परस्मै. पदसंज्ञा ॥ सततं श्लाघते कस्मै नीचो भुवि किमुत्तमम् । कर्तर्यापरुचादीनां धातूनां किं पदं भवेत् ॥ ६२ ।। आत्मनेपदम् ॥ आत्मने खस्मै । पदं प्रतिष्ठास्थानम् । आत्मनेपदं ते आते अन्ते इत्यादीनि नववचनानि भवन्तीति भावार्थः ॥ किमव्ययतया ख्यातं कस्य लोपो विधीयते । ब्रूत शब्दविदो ज्ञात्वा समाहारः क उच्यते ॥ ६३ ।। स्वरितः॥ स्वर् अव्ययं खर्गे निपातः । इतः इत्संज्ञकस्य । स्वरितः। ह्रस्वादयस्त्रयः खराः प्रत्येकमुदात्तानुदात्तखरितसंज्ञाः। समाहारः स्वरित इति तात्पर्यार्थः ॥ इति शाब्दीयजातिः । शास्त्राज्जातं शास्त्रज पृष्टम् ॥ मेघात्यये भवति कः सुमदः सुभगं च किं कमधरन्मुरजित् । कटुतैलमिश्रितगुडो नियतं विनिहन्ति कं त्रिगुणसप्तदिनैः॥६४॥ श्वासरोगम् ॥ श्वा भषकः तेषु दिनेषु मैथुनेच्छो भवेत् । सरस्तडाकम् । अगं गोवर्धनपर्वतम् । श्वासरोगम् ॥ कीहक्प्रातर्दीपवर्तेः शिखा स्या दुष्टः पृच्छत्याभजन्ते मृगाः किम् । देवामात्ये किं गते प्रायशोऽस्मि लोकः कुर्यान्नो विवाहं विविक्तः । ६५ ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56