Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji
View full book text
________________
विदग्धमुखमण्डनकाव्यम् ।
भो भो कदर्यपुरुषा विषुवहिनं च
वित्तं च वः सुबहु तक्रियतां किमेतम् ॥ ४७ ॥ नदीयतां ॥ नदी प्रसिद्धा । इयतां एतत्परिमाणमेषां तानि इयन्ति तेषां एतावदक्षराणामेव भवति । अस्मामिर्न दीयताम् ॥ लोट् ॥
का माद्यति मकरन्दैस्तनयं कमसूत जनकराजसुता।
कथय कृषीवल सस्यं पकं किमचीकरस्त्वमपि ॥ ४८ ॥ अलीलवं। अली भ्रमरः । लवं लवनामानं पुत्रम् । अहं अलीलवं छेदनम. कारयम् ॥
पृच्छति पुरुषः केऽस्यां समभूवन्वप्रकृत्तपक्षतयः ।
बहुभयदेशं जिगमिषुरेकाकी वार्यते स कथम् ॥ ४९ ॥ मानवनगाः॥ हे मानव । नगाः पर्वताः । इन्द्रेण हि पर्वतानां पक्षच्छेदः कृत इति पौराणिका वदन्ति । मानवनगाः हे अनवन न विद्यते अवनं रक्षणं यस्य सः अनवनः तत्संबोधनं हे अरक्षक, त्वं मागाः गमनं मा कुर्याः ॥ लुङ्॥
किमकरवमहं हरिर्महीधं __ स्वभुजबलेन गवां हितं विधित्सुः। प्रियतमवदनेन पीयते कः
परिणतबिम्बफलोपमः प्रियायाः ॥५०॥ अधरः ॥ हे कृष्ण, त्वं गोवर्धनपर्वतं अधरः हस्ते धृतवान् । अधरः ओष्ठः ॥
परिहरति भयात्तवाहितः कं
कमथ कदापि न विन्दतीह मीतः। कथय किमकरोरिमां धरित्री
नृपतिगुणैर्नृपते वरस्त्वमेकः ॥ ५१ ॥ समरंजयं ॥ समरं संप्रामम् । जयं जयवादम् । अहं समरंजयं रागिणीं पृथ्वीमकरवम् ॥ लङ्॥
कीहक्सेना भवति रणे दुर्वारा
वीरः कस्मै स्पृहयति लक्ष्मीमिच्छन् । का संबुद्धिर्भवति भुवः संग्रामे
किं कुर्वीध्वं सुभटजना भ्रातृव्यान् ॥ ५२ ।। पराजयेमहि ॥ परा उत्कृष्टा । उत्कृष्टा एव सेना जयं प्राप्नुयादित्यर्थः । आजये . संग्रामाय । हे महि हे पृथ्वि । वयं पराजयेमहि जयेम ॥
कंसारातेर्वद गमनं केन स्या
त्कस्मिन्दृष्टिं संलभते स्वल्पेच्छुः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56