Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 31
________________ तृतीयः परिच्छेदः । मामाहुर्युवतीममङ्गलवती कीदृग्ग्रहाणां गतिः संबोध्या वद मत्स्यवेधनपरः कीदृग्भवेत्पामरः । कीदृग्वाल्मिकवेश्म कोऽस्तनमुरो धत्ते सुरैरुच्यते ___ गीः कीदृङ् न कदापि कम्बुरहितं वाञ्छन्ति कं योषितः॥१८॥ कीहक्पान्थकुलं तमो हरति का किं चक्रसंबोधनं - रम्या चम्पकशाखिनः कथय का कश्चाटचोऽर्थे भवेत् । किं क्षिप्तं बलिवैरिणा मुररिपोः काहा श्मशानेऽस्ति का क्ष्मा कीदृग्भवति स्म पूर्वमधुना कीहक्पुनर्वर्तते ॥ १९ ॥ अजरामशुभाचारबलिशील विनोदिता । भुजंगमनिभासारकलिकालजनोचिता ॥ अजरां नास्ति जरा वृद्धत्वं यस्याः सा ताम् । अशुभा शुभकारिणी न भवति । हे चार हे गते । बलिशी बलिशमस्यास्ति सः । 'बडिशं मत्स्यवेधनम्' इत्यमरः । लवि लवो नामा सीतारामयोः पुत्रः । लवो विद्यते यस्मिन् तत् लवि । ना पुमान् । उदिता उदयं प्राप्ता । यस्य पुरुषस्य यादृश उदयो भवति तस्य तादृशी देववाणी भवेदिति भावः । भुजं हस्तम् । गमनि गमनं चलनं पर्यटनं विद्यते यस्य तत् इन्नन्तः । भा कान्तिः । हे सार सह अरैस्तिर्यकाष्ठविशेषैर्वर्तमानं सारम् । तत्संबोधनम् । कलिका कोरकः । अविकसितकलीत्यर्थः । आलज् प्रत्ययः । 'आलजाटचौ बहुभाषिणि' । अनः शकटम् । हे अ हे कृष्ण । चिता प्रसिद्धा । अजरामशुभाचारबलिशीलविनोदिता अजश्च रामश्चाजरामौ । अजो दशरथपिता, रामश्च सीतापतिः । तयोः शुभेन आचारेण । तथा बलिराजा प्रसिद्धः वामनेन यो या. चितः तस्य शीलेन आचारेण च विनोदिता हर्ष प्रापिता इति पूर्वमासीत् । अधुना कीदृशी पृथ्वी । भुजंगमनिभासारकलिकालजनोचिता भुजंगमैः सपैर्निभास्तुल्याः वक्रगतयो येऽसाराः निःसत्वाः कलिकालजनाः कलियुगमनुष्यास्तेषां मनुष्याणामु. चिता योग्या ॥ इति गोमूत्रजातिः। वर्णेनैकेन च द्वाभ्यां सर्वैर्वा सर्वदिग्गतैः । उत्तरं सर्वतोभद्रं दुष्करं तदिदं यथा ॥ २० ॥ सर्वतः समन्तात् वर्णखरान्संगृह्य प्रश्नोत्तरं क्रियतेऽतः स सर्वतोभद्रं प्रश्नोत्तरम् ॥ कस्त्यागे धातुरुक्तस्तव रिपुहृदि का भूषणं के स्तनानां को दुःखी कश्च शब्दो वदति वद शुचं को रिपू ख्यातवीयौँ । शृङ्गारी कीदृशः का रणशिरसि भयाद्भङ्गमाप्नोति सेना को दानार्थाभिधायी शिरसि शिरसि को युध्यतः संप्रहृत्य ॥२१॥ कीहक्तोयार्थिनी स्त्री भवति मदकरः प्रायशः को दुराव्यः कस्मिन्मन्दायतेऽसौ नियतमुडुपतिः प्रेयसी का मुरारेः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56