________________
१८
विदग्धमुखमण्डनकाव्यम् । यमगंधने ॥ यमः कृतान्तः । अगं परिशेषाद्गोवर्धनम् । धने द्रव्ये । 'यमो गन्धने' पाणिनीयव्याकरणमध्ये इदं सूत्रमस्ति ॥
किं स्याद्विशेष्यनिष्ठं का संख्या वदत पूरणी भवति ।
नीचः केन सगर्वः सूत्रं चन्द्रस्य कीदृक्षम् ॥ ६० ॥ विशेषणमेकार्थेन विशेषणम् । एका । शून्यानां संख्यापूरक एकमेव भवति । एकादिरको लिख्यते तदा बिन्दूनां साफल्यं स्यादन्यथा शून्यमेव । अथवा एकद्विव्यादिका संख्या । अथवा ऊनानामेकत्रिपञ्चादीनां पूरण्येका एव संख्या समसंज्ञा की भवेदित्याकूतम् । अर्थेन द्रव्येण। 'विशेषणमेकार्थेन' इदं चान्द्रव्याकरणसूत्रमस्तीति ॥
इति सौत्रजातिः।। शब्दानामिदं शाब्दीयं व्याकरणम् ॥ शाब्दे भवं शाब्दीयं पृष्टम् ॥ न श्लाघते खलः कस्मै सुप्तिङन्तं किमुच्यते ।
लादेशानां नवानां च तिङां किं नाम कथ्यताम् ॥ ६१ ।। परस्मैपदम् ॥ परस्मै आत्मव्यतिरिक्तः परः अन्यस्मै न स्तौति । पदं पदसंज्ञ सुप्तिङन्तं पदं परस्मैपदम् । नवानां अपि तिङा तिप् तस् अन्ति इत्यादीनां परस्मै. पदसंज्ञा ॥
सततं श्लाघते कस्मै नीचो भुवि किमुत्तमम् ।
कर्तर्यापरुचादीनां धातूनां किं पदं भवेत् ॥ ६२ ।। आत्मनेपदम् ॥ आत्मने खस्मै । पदं प्रतिष्ठास्थानम् । आत्मनेपदं ते आते अन्ते इत्यादीनि नववचनानि भवन्तीति भावार्थः ॥
किमव्ययतया ख्यातं कस्य लोपो विधीयते ।
ब्रूत शब्दविदो ज्ञात्वा समाहारः क उच्यते ॥ ६३ ।। स्वरितः॥ स्वर् अव्ययं खर्गे निपातः । इतः इत्संज्ञकस्य । स्वरितः। ह्रस्वादयस्त्रयः खराः प्रत्येकमुदात्तानुदात्तखरितसंज्ञाः। समाहारः स्वरित इति तात्पर्यार्थः ॥
इति शाब्दीयजातिः ।
शास्त्राज्जातं शास्त्रज पृष्टम् ॥ मेघात्यये भवति कः सुमदः सुभगं च किं कमधरन्मुरजित् ।
कटुतैलमिश्रितगुडो नियतं विनिहन्ति कं त्रिगुणसप्तदिनैः॥६४॥ श्वासरोगम् ॥ श्वा भषकः तेषु दिनेषु मैथुनेच्छो भवेत् । सरस्तडाकम् । अगं गोवर्धनपर्वतम् । श्वासरोगम् ॥
कीहक्प्रातर्दीपवर्तेः शिखा स्या
दुष्टः पृच्छत्याभजन्ते मृगाः किम् । देवामात्ये किं गते प्रायशोऽस्मि
लोकः कुर्यान्नो विवाहं विविक्तः । ६५ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com