SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ २ विदग्धमुखमण्डनकाव्यम् । क्षिप्रावबोधकरणक्षममीक्षितार्थ वक्ष्ये विदग्धमुखमण्डनमप्रपञ्चम् ॥ ७ ॥ यद्यस्ति सभामध्ये स्थातुं वक्तुं मनस्तदा सुधियः । ताम्बूलमिव गृहीत्वा विदग्धमुखमण्डनं विशत ॥ ८ ॥ उद्देशकम् | प्राहुर्व्यस्तं समस्तं च द्विर्व्यस्तं द्विः समस्तकम् । तथा व्यस्तसमस्तं च द्विर्व्यस्त कस मस्तकम् ॥ ९ ॥ सद्विः समस्त कव्यस्त मे कालापं प्रभिन्नकम् । भेद्यभेदकमोजस्वि सालंकारं सकौतुकम् ॥ १० ॥ प्रश्नोत्तरसमं पृष्टप्रश्नं भग्नोत्तरं तथा । आदिमध्योत्तराख्ये द्वे अन्त्योत्तरमतः परम् ॥ ११ ॥ कथितापतिं चैव विषमं वृत्तनामकम् । नामाख्यातं च तायं च सौत्रं शाब्दीयशास्त्रजे ॥ १२ ॥ वर्णवाक्योत्तरे तद्वच्छ्रोकोत्तरमतः परम् । खण्डपादोत्तरे चक्रं पद्मं काकपदं तथा ।। १३ ॥ गोमूत्र सर्वतोभद्रं गतप्रत्यागतं बहु | वर्धमानाक्षरं तद्वद्धीयमानाक्षरं तथा ॥ १४ ॥ शृङ्खलां नागपाशं च चित्रं संशुद्धमेव च । प्रहेलिका तथा हृद्यं कालसारादिवर्णितम् ॥ १५ ॥ अजमारादिकं गूढं पदपादार्थगूढकम् । स्तुतिनिन्दां तथा व्यर्थ सहाहुतिविन्दुमत् ॥ १६ ॥ क्रियाकारकसंबन्धगुप्तान्यामत्रितस्य च । गुप्तं तथा समासस्य लिङ्गस्य वचनस्य च ॥ १७ ॥ मात्राबिन्दु विसर्गाणां च्युतकान्यक्षरस्य च । स्थानव्यञ्जनयोश्चापि च्युतदत्ताक्षरं तथा ॥ १८ ॥ इत्युद्देशकम् । पृष्टं पदविभागेन केवलेनैव यद्भवेत् । विदुर्व्यस्तं समस्तं यत्समुदायेन पृच्छति ॥ १९ ॥ पृष्टमिति । पृथक् पृच्छयते तत् व्यस्तं पृष्टम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034657
Book TitleVidagdha Mukh Mandan Kavyam
Original Sutra AuthorN/A
AuthorVasudev Lakshman Sharma
PublisherPandurang Jawaji
Publication Year1926
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy