SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ श्रीः । श्रीधर्मदाससूरिविरचितं विदग्धमुखमण्डनकाव्यम् । सटीकम् । प्रथमः परिच्छेदः। सिद्धौषधानि भवदुःखमहागदानां पुण्यात्मनां परमकर्णरसायनानि । प्रक्षालनैकसलिलानि मनोमलानां शौद्धोदनेः प्रवचनानि चिरं जयन्ति ॥ १॥ जयन्ति सन्तः सुकृतैकभाजनं परार्थसंपादनसगतस्थिताः । करस्थनीरोपमविश्वदर्शना जयन्ति वैदग्ध्यभुवः कवेगिरः॥२॥ आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा सातत्यं बत मुद्रितेव जतुना नीतेव मूच्छी विषैः । बद्धेवातनुरज्जुमिः परगुणान्वक्तुं न शक्ता सती जिह्वा लोहशलाकया खलमुखे विद्धेव संलक्ष्यते ॥ ३ ॥ इहानेके सत्यं सततमुपकारिण्युपकृति कृतज्ञाः कुर्वन्तो जगति निवसन्त्येव सुधियः । कियन्तस्ते सन्तः सुकृतपरिपाकप्रणयिनो विना स्वार्थ येषां भवति परकृत्यव्यसनिता ॥ ४ ॥ एषोऽखलिः सममसज्जनसजनौ तौ ___ वन्दे नितान्तकुटिलप्रगुणस्वभावौ । एक मियाभिनवसंहितवैरिभावं __ प्रीत्या परं परमनिर्वृतिपात्रभूतम् ॥५॥ किं मेऽथवा हतखलप्रणताविह स्या त्स स्वीकरोति सुजनो यदि मां गुणज्ञः । चन्द्रेण चारुचरितेन विकासितं य त्संकोचितं भवति किं कुमुदं तमोभिः ॥६॥ प्रीत्यै सतां तदनुभावगतावसादः संत्यज्य गूढरचनां प्रतिभानुरूपम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034657
Book TitleVidagdha Mukh Mandan Kavyam
Original Sutra AuthorN/A
AuthorVasudev Lakshman Sharma
PublisherPandurang Jawaji
Publication Year1926
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy