Book Title: Vidagdha Mukh Mandan Kavyam Author(s): Vasudev Lakshman Sharma Publisher: Pandurang Jawaji View full book textPage 9
________________ प्रथमः परिच्छेदः । पूजायां किं पदं प्रोतमस्तनं को बिमयुरः । क आयुधतया ख्यातः प्रलम्बासुरविद्विषः ॥२०॥ सुनासीरः॥ सुः पूजायाम् । ना पुरुषः । सीरो हलम् ॥ किं दुराव्यस्य मोहाय का प्रिया सुरविद्विषः। पदं प्रश्नवितर्के किं को दन्तच्छदभूषणम् ॥ २१ ॥ रामानुरागः॥राः धनम् । मा लक्ष्मीः । नु इति वितर्के । रागः आरकलम् ॥ इति व्यस्तजातिः। अपि सेविता द्विजिलैः कदापि के यान्ति न विकारम् । विच्छिद्यमानतनवः स्वगुणैरधिकं विराजन्ते ॥ २२ ॥ मलयतरवः॥ समुदायेन पृच्छयते तत्समस्तं पृष्टम् । मलयतरवश्वन्दनवृक्षाः॥ अनिभृतकोकिलनिःस्वनमुखरितसहकारकाननः पुंसाम् । को हरतितरां हृदयं मधुकरझंकारिकलिः ॥ २३ ॥ मधुसमयः॥ मधोर्वसन्तस्य समयः कालः ॥ इति समस्तजातिः। व्यस्तं समस्तमथवा समासपदभङ्गतः। द्विःपृष्टं यत्तदेव स्थाविय॑स्तं द्विःसमस्तकम् ॥ २४ ॥ द्विचारं पृथक् पृच्छयते तडिव्यस्तं पृष्टम् ॥ वर्षासु का भवति निर्मधु कीगजं __ शेषं बिभर्ति वसुधासहितं क एकः । आमत्रयख धरणीधरराजपुत्री को वास्ति भस्मनिचिताङ्गजनाश्रयः स्यात् ॥ २५॥ कालिकापालिकमठः ॥ कालिका श्यामता । अपगता अलयो भ्रमरा यस्मा. त्तदपालि भ्रमररहितम् । के पानीये मठः स्थानं यस्य सः कमठः कच्छपः। हे कालि हे पार्वति, कपालैनरमुण्डैविराजते कापालिको योगी तस्य मठः प्रसिद्धः । कीदृशं वद मरुस्थलं मतं द्वारि कुत्र सति भूषणं भवेत् । ब्रूहि कान्त सुभटः सकार्मुकः कीदृशो भवति कुत्र विद्विषाम् २६ अवारितोरणे ॥ न विद्यते वारि जलं यस्मिन् तत् अवारि । तोरणे सति । 'बहिरं तु तोरणम्। रणे संग्रामे अवारितः न वारयितुं शक्यत इत्यवारितः ॥ इति द्विय॑स्तजातिः। पक्षिश्रेष्ठसखीबभ्रूसुरा वाच्याः कथं वद । ज्येष्ठे मासि गताः शोषं कीदृश्योऽल्पजला भुवः ॥ २७॥ विवरालीनकुलीराः॥ द्विवार समुदायेन पृच्छपते तत् द्विःसमस्तकं पृष्टम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56