Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 18
________________ १२ विदग्धमुखमण्डनकाव्यम् । उत्तरं तत्रिधा प्रोक्तमादिमध्यान्तसंज्ञितम् ॥ २२॥ प्रश्नानां पदसमुदाये आदी यदुतरं भवेत् तत् आद्युत्तर पृष्टम् ॥ भ्रमरहितः कीदृक्षो भवतितरां विकसितः पनः । ज्योतिषिकः कीदृक्षः प्रायो भुवि पूज्यते लोकैः ॥ २३ ॥ भ्रमरहितः भ्रमराणां भृङ्गाणां हितो हितकृत् । श्रमेण मिथ्यामत्या रहितः शुद्धज्ञान वान्॥ प्रभवः को गङ्गाया नगपतिरतिसुभगशृङ्गधरः । के सेव्यन्ते सेवकसाथैरत्यर्थमर्थरतैः ॥ २४ ॥ प्रभवः उत्पत्तिस्थानम् । प्रभवो महान्त ईश्वराः। आधुत्तरजातिरिति प्रश्नानां पदसमुदायमध्ये यदुत्तरं भवेत् तत् मध्योत्तरं पृष्टम् ॥ इत्याधुत्तरजातिः। अयमुदितो हिमरश्मिर्वनितावदनस्य कीदृशः सदृशः । नीलादिकोपलम्भः स्फुरति प्रत्यक्षतः कस्य ॥ २५ ॥ सदृशः समान इव दृश्यतेऽसौ तुल्य इत्यर्थः । दृशा नेत्रेण सहवर्तमानः सदृक्तस्य सदृशः सनेत्रस्य मनुष्यस्य ॥ गैरिकमनःशिलादिः प्रायेणोत्पद्यते कुतो नगतः । यः खलु न चलति पुरुषः स्थानादुक्तः स कीदृक्षः ॥ २६ ॥ नगतः नगात्पर्वतात् न गतः स न जगामेत्यर्थः ॥ प्रश्नानां पदसमुदायी अन्ते यदुत्तरं भवेत्तत् अन्तोत्तरं पृष्टम् ॥ इति मध्योत्तरजातिः । कस्मिन्वसन्ति वद मीनगणा विकल्पं ___ किंवापदं वदति किं कुरुते विवस्वान् । विद्युल्लतावलयवान्पथिकाङ्गनाना मुद्वेजको भवति कः खलु वारिवाहः ॥ २७ ॥ वारिवाहः । वारि जले। वा विकल्पार्थे । अहः दिनम्। वारिवाहो मेघः ।। शब्दः प्रभूगत इति प्रचुराभिधायी ___ कीदृग्भवेद्वदत शब्दविदो विचिन्त्य । कीडग्बृहस्पतिमते विदिताभियोगः प्रायः पुमान्भवति नास्तिकवर्गमध्यः ॥ २८ ॥ नास्तिकवर्गमध्यः न अस्ति न विद्यते कवर्गो गकारो मध्ये यस्य सः कवर्ग• मध्यप्रभूगतोऽयं शब्दः । कोऽर्थः । यदा प्रभूगतस्य मध्यात्कवर्गीयो गकारो लुप्यते तदा प्रभूत इत्येवावशिष्यते। प्रभूतः प्रचुरवाची। नास्तिकानां अपुनर्जन्मवादिनां वर्गः समूहस्तस्य मध्येऽन्तर्वर्ती । नास्ति परलोके मतिर्येषां ते नास्तिका इति व्युत्पत्त्या तेषां मतं भिन्नमेषास्ति । इत्यन्तोत्तरजातिः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56