Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji
View full book text
________________
द्वितीयः परिच्छेदः। पदान्तरादिसंबन्धात्मश्नवाक्येऽपि संस्थितम् ।
कथितापह्नुतिः सा खाल्लक्ष्यते यत्र नोत्तरम् ।। २९ ॥ यत्पृष्टं प्रश्नवाक्ये संस्थितमपि पदान्तरेषु गोपनात् उत्तरं न ज्ञायते तत्कथितापहुति पृष्टम् ॥
पृथ्वीसंबोधनं कीहक्कविना परिकीर्तितम् ।
केनेदं मोहितं विश्वं प्रायः केनाप्यते यशः ॥ ३० ॥ कथितस्य भाषितस्यापि अपह्नुतिः निह्नवनं यस्मिन् तत् । कविना इति उत्तरम् । को हे पृथ्वि । इना कामेन । कविना काव्यका ॥
कस्य मरौ दुरधिगमः कमले कः कथय विरचितावासः।
कैस्तुष्यति चामुण्डा रिपवस्ते वद कुतो भ्रष्टाः ॥ ३१ ॥ कस्य इत्युत्तरम् । कं जलं तस्य । को ब्रह्मा इत्युत्तरम् । कैमस्तकरित्युत्तरम् । कुतः पृथिव्याः सकाशादित्युत्तरम् । पृथ्व्याधिकारात्पतिता इत्यर्थः॥
इति कथितापह्नुतिजातिः । यत्र भङ्गस्य वैषम्यं विषमं तनिगद्यते । यत्र प्रश्ने भङ्गस्य रचनायाः दुष्करत्वं भवति तत् विषमं पृष्टम् ॥ कीदृग्वनं स्यान्न भयाय पृष्टे यदुत्तरं तस्य च कीदृशस्य । वाच्यं भवेदीक्षणजातमम्बु कं चाधिशेते गवि कोऽर्चनीयः ॥३२॥
अहिंस्रमहिमः॥ अहिंस्रं न सन्ति हिंस्राः घातुका जीवविशेषाः यस्मिन् तत् । अहिमः न विद्यते हिम् अहिम् तस्य अहिमः सतः। कोऽर्थः । यदा अहिंस्रशब्दात् हिम् दूरीक्रियते तदा असं इति तिष्ठति । असं नेत्रजलं अश्रुपातः । अहिं शेषनागम् । अः कृष्णः पृज्यः सन् अधिशेते ॥
प्रायः कार्ये न मुह्यन्ति नराः सर्वत्र कीदृशाः ।
नाधा इति भवेच्छब्दो नौवाची वद कीदृशः ॥ ३३ ॥ सावधानाः॥ सह अवधानेन समाधिना वर्तन्त इति सावधानाः । 'समाधि. नियमे ध्याने' इत्यमरः । अव्यप्रचित्ता इत्यर्थः । सौ अधा ना सू इति पदच्छेदः । अस्यार्थः-औकारेण सहवर्तमानः सौ नधा अधा धारहितः एवं विधः ना इति शब्दः। सकारस्थ विसर्गः। नोः इति नौवाचि भवेदिति योजना । अस्यायं विधिः-नाधा इत्यत्र ना धा इति मिन्नी लिख्येते ना इति सौ औकारेण सहितः क्रियते तदा नौ इति स्यात् । अधा धा इति दूरीक्रियन्ते स इत्यस्य विसर्गः क्रियते । नौः इत्येवं सिद्ध्यति नौकावाची जातः॥
इति विषमजातिः । वृत्तनामोत्तरं पृष्टं भवेत्तद्वत्तनामकम् ॥ ३४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
, surat
www.umaragyanbhandar.com

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56