Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji
View full book text
________________
विदग्धमुखमण्डनकाव्यम् ।
कः सर्वदा वृषगतिःस्वमिवातिमात्रं भूत्याश्रितः कथय पालितसर्वभूतः ॥ ८ ॥ शंकरः ॥ शं सुखम् । करो राजभागः । शंकरो महादेवः ॥ सूर्यस्य का तिमिरकुञ्जरवृन्दसिंही
१०
सत्यस्य का सुकृतवारिधिचन्द्रलेखा । पार्थश्व की गरिदावहुताशनोऽभू
का मालतीकुसुमदाम हरस्य मूर्ध्नि ॥ ९ ॥
1
भागीरथी ॥ भा कान्तिः । गीः वाणी । रथी रथो विद्यते यस्य सः । भगीरथेन आनीता भागीरथी गङ्गा ॥
रूपकं सालंकारजातिः ।
लघुवृत्तेन यत्पृष्टं प्रभूताक्षरमुत्तरम् ।
सकौतुकमितीच्छन्ति तद्विदस्तदिदं यथा ॥ १० ॥ लघुश्लोकेन यत्पृष्टं पृच्छयते तस्योत्तरं बहुक्षरैर्भवेत् तत्सकौतुकं पृष्टम् ॥ के स्थिराः के प्रियाः स्त्रीणां कोऽप्रियो नक्तमाह्वय । नृत्यभूः कीदृशी रम्या नदी कीहरघनागमे ॥ ११ ॥
अगाधवारिपूरजनिततरंगा ॥ अगाः पर्वताः । धवाः भर्तारः । रिपुः शत्रुः । हे रजनि । ततरंगा ततो विस्तीर्णो रङ्गो नर्तनमण्डपो यस्याः सा । अगाधेन अतलस्पर्शेन वारिपूरेण जलसमूहेन जनिता उत्पादितास्तरंगा लहर्यो यस्यां सा ॥ का कृता विष्णुना कीदृग्योषितां कः प्रशस्यते ।
असेव्यः कीदृशः स्वामी को निहन्ता निशातमः ॥ १२ ॥ कुमुदवनबान्धवोदयः ॥ कोः पृथिव्याः मुत् कुमुत् । पृथिव्याः मध्ये प्रीतिः कृतेत्यर्थः । अवनं रक्षणं विद्यते यस्यासौ अवनवान् रक्षाकरः । धवो भर्ता । सविशेषणमुत्तरं अत्र कृतम् । नास्ति दया यस्य सः अदयः दयारहितः । अथवा 'दय दाने' | नास्ति दयो दानं यस्य सः अदयः अदाता ॥ कुमुदानां चन्द्रविकासिकमलानां वनानां बान्धवो भ्राता चन्द्रस्तस्योदयः प्रकटभावः ॥
इति सकौतुकजातिः ।
प्रश्नवर्णविधेस्तुल्यं यत्र स्यादुत्तरं वरम् ।
प्रश्नोतरसमं तज्ज्ञास्तदाहुः श्रूयतां यथा ॥ १३ ॥
प्रश्नश्च उत्तरं च प्रश्नोत्तरे ताभ्यां समं युगपद्भवनमेकीभूतं प्रश्नोत्तरसमं पृष्टम् ॥ कंदर्प मदजनकं प्राहुः काचघटी गदिताच्छतमेह | इत्यादि प्रश्ने युक्तं यदुक्त तद्बद्युत्तरमाशु विचिन्त्य ॥ १४॥ कंदर्प कामं । काचघटी काचः प्रसिद्धः अतिनिर्मलस्तस्य घटी कूपिका ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56