Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 14
________________ विदग्धमुखमण्डनकाव्यम् । पन्नगसहितैव । ना पुमान् । अम् कृष्णम् । विपत् संपदोऽभावः अलक्ष्मीः दरिद्रता। नगानां पर्वतानाम् ॥ समयमिह वदन्ति कं निशीथं शमयति कान्वद वारिवाहवृन्दम् । वितरति जगतां मनःसु कीदृअदमतिमात्रमयं महातडागः ॥ ५३ ॥ अरविंदवान् ॥ अरविं नास्ति रविः सूर्यो यस्मिन् सः अरविस्तम् । दवान् दावानलान् । अरविन्दवान् । अरविन्दानि कमलानि विद्यन्ते यस्मिन् सोऽरविन्दवान् । मखन्तः ॥ इति शब्दार्थविभक्तिवचनभिन्नम् । कीदृक्षं समिति बलं निहन्ति शत्रु विष्णोः का मनसि मुदं सदा तनोति । तुच्छं सच्छरधिमुखं निगद्यते किं पञ्चत्वैः सममपमान एव केषु ॥ ५४॥ अभिमानिषु ॥ अमि नास्ति भीर्भयं यस्य तत् । मा लक्ष्मीः। अनिषु न विद्यन्ते इषवो बाणाः यस्मिन् तत् । अभिमानिषु गर्ववत्सु ॥ घनसमये शिखिषु स्यान्नृत्यं कीदृक्षु किं घनात्पतति । प्रावृषि कस्य न गमनं मानसगमनाय कीदृशा हंसाः ॥५५॥ समुत्सुकमनसः॥ समुत्सु मुदा हर्षेण सहवर्तमानाः समुदस्तेषु । कं पानीयं । अनसः शकटस्य । समुत्सुकमनसः सं सम्यक् उत् प्राबल्येन सु अतिशयेन यत् उत्पन्न नत्समुत्सुकम् 'इष्टार्थोद्युक्त उत्सुकः' इत्यमरः । समुत्सुकं उत्कण्ठामुक्तं मनो येषां ते॥ इति शब्दार्थलिङ्गवचनभिन्नम् । इति प्रभिन्नकजातिः। अर्थमात्रैकमेदेन मिनं बघ्नन्ति केचन । सुकुमारा धियस्तच विदग्धैर्नादृतं यथा ॥ ५६ ॥ आनन्दयति कोऽत्यर्थ सजनानेव भूतले । प्रबोधयति पद्मानि तमांसि च निहन्ति कः ॥ ५७ ॥ मित्रोदयः॥ मित्राणां सखीनां उदयो वृद्धिः । मित्रस्य सूर्यस्य उदय उन्मनम् ॥ अटवी कीदृशी प्रायो दुर्गमा भवति प्रिये । प्रियस्य कीदृशी कान्ता तनोति सुरतोत्सवम् ॥ ५८ ॥ मदनवति ॥ मदना मदनवृक्षाः विद्यन्ते यस्यां सा । अतिगहनलाहर्गमा । मदनः कामो विद्यते यस्याः सा । सयौवना इत्यर्थः ॥ इति प्रकारान्तरेण प्रभिन्नकजातिः। भिन्नाववश्यं कर्तव्यौ शब्दार्थों प्रश्नपण्डितः । लिङ्गाङ्गिषु यथाशक्ति भेदमाहुर्मनीषिणः ।।५९ ॥ इति प्रथमः परिच्छेदः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56