Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 12
________________ ६ विदग्धमुखमण्डनकाव्यम् । उपस्कृता । नराणां कपालानि कर्पराणि तैः कृत्वा रचिता । श्मशानभूमिस्तु मनुष्याणां मुण्डैः सहिता भवति ॥ केसरद्रुमतलेषु संस्थितः कीदृशो भवति मत्तकुञ्जरः । तत्त्वतः शिवमपेक्ष्य लक्षणैरर्जुनः समिति की दृशो भवेत् ॥४०॥ दानवकुलभ्रमरहितः ॥ दानेन मदेन बकुलानां वृक्षाणां भ्रमरेभ्यः सकाशात् हितः हितकृदित्यर्थः ॥ दानवानां दैत्यानां कुले यो भ्रमो दानवा अमी युध्यन्तीति मिथ्याज्ञानं तेन रहितः ॥ इत्येकालापकजातिः । शब्दार्थलिङ्गवचनैर्व्यस्तैर्यद्वा समस्तकैः । विभक्त्या च प्रभिन्नं यत्तत्प्रभिन्नकमुच्यते ॥ ४१ ॥ शब्दार्थो लिङ्गेन वचनेन विभक्त्या च भेदं प्राप्तौ यस्मिन् तत्प्रभिन्नकं पृष्टम् ॥ निर्जितसकलारातेः पृच्छति को न हि को मृत्योर्भयमृच्छति । मेघात्ययकृत सुचिराशायाः किं तिमिरक्षयकारि निशायाः ॥ ४२ ॥ विधुतारातेजः ॥ हे विधुताराते, विधुताः कम्पिताः अरातयः शत्रवो येन सः तत्संबोधनम् ॥ अजः ब्रह्मा कृष्णः शंभुरपि च ॥ विधुश्चन्द्रः तारा नक्षत्राणि तासां तेजः प्रकाशः ॥ विहगपतिः कं हतवानहितं कीदृग्भवति पुरं जनमहितम् । किं कठिनं विदितं वद धीमन यादः पतिरपि कीदृग्भयकृत् ॥४३॥ अहिमकरमयः ॥ अहिं सर्प || अकरं नास्ति करो राजदण्डो यस्मिन् तत् ॥ अयो लोहम् ॥ अहिमकरमयः अहयः सर्पाः मकराः मत्स्यविशेषास्तन्मयः ॥ इति शब्दार्थलिङ्गप्रभिन्नकम् । अनुकूलविधायिदैवतो विजयी स्यान्ननु कीदृशो नृपः । विरहिण्यपि जानकी वने निवसन्ती मुदमादधौ कुतः ॥ ४४ ॥ कुशलवर्द्धितः ॥ कुशलैः शुभसूचकशकुनैः वर्द्धितो वर्द्धापितः ॥ कुशच लवश्च कुशलवनामानौ पुत्रौ तयोर्ऋद्धिः संपत्तस्मात् ॥ कुसुमं तदेत्य नाकतो वद कस्मै स्पृहयन्ति भोगिनः । अधिगम्य रतं वराङ्गना क नु यत्नं कुरुते सुशिक्षिता ॥ ४५ ॥ सुरतरवे ॥ कल्पवृक्षाय वाञ्छन्ति ॥ सुरतस्य संभोगस्य रवः शब्दस्तस्मिन् ॥ इति शब्दार्थविभक्तिभिन्नम् । कामुज्जहार हरिरम्बुधिमध्यमनां कीदृक्तं भवति निर्मलमानसानाम् । आमत्रयस्व वनमग्निशिखावलीढं तच्चापि को दहति के मदयन्ति भृङ्गान् ॥ ४६॥ कुंद मकरंदबिंदवः ॥ कुं पृथ्वीं । दमकरं शमदमउपशमक्षमायुक्तं भवतीत्यर्थः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56