Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji
View full book text
________________
विदग्धमुखमण्डनकाव्यम् ।
विः पक्षी । वरं श्रेष्ठम् | आली सखी । नकुली नकुलस्त्री । इरा मदिरा । विवरेषु छिद्रेषु आलीनाः प्रविष्टाः कुलीराः जलचरजीवविशेषाः यासु ताः ॥
विश्वंभरा प्रलम्बघ्न्नत्री हिमानुषसंयुताः ।
कथं वाच्या भवन्त्येता दिनान्ते विकसन्ति काः ||२८|| कुवलयवनराजयः ॥ कुः पृथ्वी । वलो बलभद्रः । ववयोरैक्यम् । यवो धान्यभेदः । नरो मनुष्यः । आजिः संग्रामः । कुवलयानां कमलानां वनानां राजयः पङ्कयः ॥
इति द्विः समस्तजातिः ।
पृष्टं पदविभागेन समुदायेन यद्भवेत् । विदुर्व्यस्तसमस्तं तदुभयार्थप्रदर्शकम् ॥ २९ ॥
व्यस्तं च तत्समस्तं च व्यस्तसमस्तं पृष्टम् ॥
का प्रियेण रहिता वराङ्गना धानि केन तनयेन नन्दिता । कीदृशेन पुरुषेण पक्षिणां बन्धनं समभिलष्यते सदा ॥ ३० ॥ शकुन्तलाभरतेन ॥ शकुन्तलानाम्नी ऋषेः पुत्री, भरतनाम्ना पुत्रेण नन्दिता इत्यर्थः । शकुन्तानां पक्षिणां लाभो द्रव्योपार्जनं तत्र रत आसतस्तेन शकुन्तलाभरतेन व्याधेनेत्यर्थः ॥
कीदृशं हृदयहारि कूजितं कः सखा यशसि भूपतेर्मतः ।
कस्तवास्ति विपिने भयाकुलः कीदृशश्च न भवेन्निशाकरः ॥ ३१ ॥ कलंक विरहितः ॥ कलं मधुरः शब्दः । कविः राज्ञां काव्यादिग्रन्थरचनाकृत् । अहितः शत्रुः । कलङ्केन मृगरूपाभिज्ञानेन विरहितः न स्यादिति भावार्थः ॥ इति व्यस्तसमस्तजातिः ।
द्विर्व्यस्तमेव यत्पृष्टं समुदायेन यद्भवेत् ।
त्रिधा भिन्नं तदेवोक्तं द्विर्व्यस्त कसमस्तकम् ॥ ३२ ॥ द्विवारं व्यस्तीकृत्य पश्चात्समुदायेन पृच्छयते तद्विर्व्य स्वक समस्तकं पृष्टम् ॥ कौ शंकरस्य वयापयोधरः कः
कीदृक्परस्य नियतं वशमेति भूपः ।
संबोधयोरगपति विजयी च कीदृ
दुर्योधनो नहि भवेद्वद कीदृशश्च ॥ ३३ ॥
अहीनाक्षतनयाः ॥ अहिः सर्पः । ना पुमान् । क्षतनयः क्षतः खण्डितो नयो न्यायो येन सः अन्यायवान् । हे अहीन अहीनां सर्पाणामिनः खामी तत्संबोधनम् । अक्षतनयः नक्षतो नयो न्यायो येन सः अखण्डन्यायवान् ॥ हीने अक्षिणी यस्यासौ हीनाक्षीऽन्धस्तस्य तनयः पुत्रः न हीनाक्षतनयोऽहीनाक्षतनयः । धृतराष्ट्रो हि हीनाक्षोऽन्ध इति पौराणिकाः। तत्पुत्रो दुर्योधनोऽहीनाक्षतनयो न भवति किं तु अन्धपुत्र इत्यर्थः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56