Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 20
________________ १-निग्रहस्थानलणम् इष्टस्यार्थ(स्य)सिद्धिः साधनं, तस्य निर्वर्त्तकमङ्गं, तस्या(s)वचनं तस्याङ्गस्यानुच्चारणं वादिनो निग्रहाधिकरणं । तदभ्युपगम्याप्रतिभया तूष्णीं भावात् । साधनाङ्गस्यासमर्थनाद्वा । त्रिविधमेव हि लिङ्गमप्रत्यक्षस्य एवमभिधाय प्रयोजनं सकलप्रकरणार्थसंग्राहकं श्लोकमाह असाधनाङवचन (1b1)मित्यादिना। असाधनाङगवचनमदोषोद्भावनञ्च द्वयोर्वादिप्रतिवादि नोर्यथाक्रमं निग्रहस्थानं पराजयाधिकरणं । अन्यत्त्वित्येतद्धयव्यतिरिक्तमक्षपादपरिकल्पितं प्रतिज्ञासंन्यासादिकं वक्ष्यमाणं निग्रहस्थानं न युक्तमिति कृत्वा नेष्यते (1) निग्रहस्थानमिति वर्त्तते । अयं तावत् समासेन इलोकार्थः । इष्टस्ये (Ibr)त्यादिना विभागमारभते । इष्टोऽर्थोऽनित्यः शब्द इत्यादि साध्यत्त्वेनेप्सितः । तस्य सिद्धिः प्रतिपत्तिः साधनं । तदनेन भावस्य साधनोयं साधनशब्दस्तावदस्मिन्व्याख्यानेऽभिप्रेतो न तु करणसाधन इति दर्शयति ॥ तस्य साधनस्येष्टार्थसिद्धिलक्षणमस्याङग किन्तदित्याह । निवर्तकं जनकं । अने'नाङगशब्दं व्याचष्टे । कारणपर्यायोयमत्राङगशब्दो नावयवपर्याय इत्यर्थः । तच्च साधनाङगमिह निश्चितरूप्यं लिङगमुच्यते। अस्य साधनाङगस्य वचनं त्रिरूपलिङगा ख्यानं । तस्य साधनाङगस्यावचनमनुच्चारणम (1b2) नभिधानं यत्तदसाधनाङगवचनं । अनेनैतत्कथयति असाधनाङगस्य पक्षोपनयनादेवचनमसाधनाङगवचनमिति मै व प्रतिपत्तव्यमस्मिन्व्याल्याने। किन्तु साधनाङग- 3a स्यैवावचनमसाधनाङगवचन मिति । तदसाधनाङगवचनं वादिनो निग्रहस्थानं । तदेतेन श्लोकस्य पूर्वभागम्विवृणोति । कथम्पुनः साधनाङगस्यानुच्चारणम्भवति निग्रहस्थानं चेत्याह । तदभ्युपगम्येति (1b2) तदितीष्टं साध्यमभ्युपगम्याहमेतत्साधयामीति प्रतिज्ञयाप्रतिभया करण भूतया तूष्णीम्भावात् । अप्रतिभात्र पूर्वाषिगतार्थविस्मरणं स्तम्भितत्त्वञ्च गृह्यते। ___ अनेन सर्वथा साधनाङगस्पावचनमाह अभिधाने वा यदि न समथितं तदोक्तमप्यऽनूक्तमेव स्वकार्याकरणात् । इत्यभिप्रायवानाह (-) साधनाङगस्यासमर्थनाद्वेति (1b2) । तदभ्युपगम्येतिवर्तते । वा शब्दः पुर्वापेक्षया विकल्पार्थः । साधनाङगस्यासमर्थनं त्रिष्वपि रूपेषु निश्चयाप्रदर्शनं । तस्मात्तूष्णीम्भावादसमर्थनाच्च साधनाङगस्यानुच्चारणं । ततश्च प्रतिज्ञातार्याकारणात् वादिनो निग्रहाधिकरणमिति (1b2) प्रकृतेन सम्बन्धः। क्वचित्तु वादिन इति पाठः । तत्र तच्छब्देन प्रकृतमनुच्चारणं संबध्यते।। कथम्पुनः साधनाङगासमर्थनम्भ 'वति । येन तद्विपर्ययेनासमर्थनात्प्रतिज्ञाताकारणाद्वादिनो निग्रहाधिकरणत्त्वमिति कदाचित्कश्चिद् ब्रूयादित्येतत्परिजिहीर्षुराविप्रस्थानमारचयति ' त्रिविधमेवे (1b2)त्यादिना त्रिप्रकारमेव लिङग

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194