Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 38
________________ १-निग्रहस्थानलक्षणम् [२१ विधस्य सतः सत्स्वन्येषूपलम्भकारणेष्वनुपलब्धिः । अनुपलभ्यमानं त्वीदृशं नास्तीत्येतावन्मात्रनिमित्तोयमसद्वयवहारोऽन्यस्य तन्निमित्त मुक्त्वा यदन्यदसद्वयवहारसाधनमनुपलब्धिमानं लिङगमुपादीयते । तदा तस्मिन्सति संशयो भवति नास्त्यसद्वयवहारनिश्चयः उपलब्धिनिवृत्तावप्यर्थाभावासिद्धेरिति समुदायार्थ (1) यदि वा ततो दृश्यानुपलम्भाल्लिङगात् सकाशादन्यथा सति लिङगे संशय इति व्याख्यातव्यं । तस्माच्छब्दस्तु पूर्वमध्या हर्त्तव्यं । अथवा तत उपलब्धिलक्षणप्राप्ताद न्यथा तद्विहीने संशये सति तल्लिङग I5b इति व्याख्येयं । का पुनरत्रानुपलब्धौ व्याप्तिरित्याह । अत्रापीत्यादि (2bII)। एवं विधमिति दृश्यं सदनुपलब्धं (1) सर्वग्रहणं सोपसंहारेण व्याप्तिप्रदर्शनार्थ॥ ननु यदि नाम कस्यचिद्विषाणादेः शशमस्तकादावुपलब्धिलक्षणप्राप्तानुपलब्धस्यासद्व्यवहारविषयता । अन्येनापि सामान्ये विशेष्येवयविद्रव्यसंयोगविभागादिना तथाविधेन तथा भवितव्यमिति कुतोऽयं नियम इत्यत आह । कस्यचिदि (2b1) त्यादि । कस्यचिदुपलब्धिलक्षणप्राप्तस्या नुपलब्धस्य शशविषाणादेरसतोऽसद्वयवहारविषयेस्त्यभ्युपगमेऽसद्वयवहारादिविषयोऽसन्नित्युक्तः । तल्लक्षणाविशेषादि (2b1)ति । तस्या सतो लक्षणं निमित्तं यथोक्तानुपलब्धिलक्षणशब्दश्च करणसाधनस्तस्याविशिष्टत्वात् सामान्यविशेषावयविद्रव्यादाविति वाक्यशेषः । एतदुक्तम्भवति शशविषाणादेरप्यसयवहारविष (य)त्वं कस्मादिष्यते। यथोक्तानुपलम्भस्य तन्निमित्तस्य सद्भावादिति चेत् । यद्येवं सामान्यविशेषता तस्यास्तीति कस्मात्तथा सद्वयवहारविषयत्वन्नाभ्युपगम्यते (1) अन्यथा तत्रापि तत्स्याच्चेत्। नहि पुरुषेच्छावशाद्धेतौ विषयप्रविभागो युक्त इति । नही (2b1)त्या दिनैतदेव व्यनक्ति। एवंविधस्य दृश्यस्य सत्त्वेऽनुपलब्धस्या सत्वानभ्युपगम (2b1) इति । असद्व्यवहारादिविषयत्वान्नाभ्युपगम इत्यर्थः असत्वशब्देना सद्व्यवहारो विनिश्चयस्तस्योपलक्षणम् । युक्तोपलम्भस्य तस्यैवा नुपलम्भनं प्रतिषेधहेतुरित्यादि चेत् । अन्यत्र शशशृङगाभावे दण्डेन पुरुषस्य (?) योगः स एव इत्यर्थः (1) नहयेवंविधस्य दृश्यस्य चक्षुरादिशून्येषूपलम्भकारणेषु 16a स अनुपलब्धिर्भवति ॥ किन्तर्हथुपलब्धिरेव भवतीति प्रतिषेधद्वयेनाह । अन्यस्योपलब्धिप्रत्ययस्य कस्यचिदपेक्षणीयस्याभावादिति भावः । तदनेन प्रकृतमेव स्पष्टयति । अनुपल'. भ्यमानं त्वीदशमित्युपलब्धिलक्षणप्राप्तन्नास्ति तस्मादेतावत्सात्र उपलब्धिलक्षणप्राप्तानुपलब्धिमात्रनिमित्तं यस्यासद्व्यवहारस्य स तथा ख्यातः तदनेनासत्'

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194