Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 134
________________ २-न्यायमतखंडनम् [११७ दोषभेदात् । तस्माद्यं पदार्थं दूषयति स एव तदूषणविषयस्तदा प्रदर्शनीयो नापरस्तु दूषणेऽपरोपदर्शनस्यासम्भवात् । तस्मिन्दूषिते पुनरन्योर्थोऽपरदोषविषय इत्ययमनुभाषणे दूषणे च न्याय: । सकृत्सर्वानुभाषणेपि दोषवचनकाले पुनर्विषयप्रदर्शनीय एवाप्रदर्शिते दोषस्य वक्तुमशक्यत्वात्। तथा च द्विरनुभाषणं कृतं स्यात् । तत्र प्रथम सर्वानुक्रमानुभाषणं निष्प्रयोजनं, दूषणवादिना दूषणे वक्तव्ये यन्न तत्रोपयुज्यते तस्याभिधानमदोषोद्भावनं द्विरुक्तिश्चेति । सकृत्सर्वानुभाषणं पराजयाधिकरणं वाच्यं । तथान्त्विति चेत् । स्यादेतदुक्तमेतदर्थान्तरं निग्रहस्थानमिति तत्र साधने यतः कुतश्चित्प्रसङ्गादिना नान्तरीयकाभिधानं वादिनोऽर्थान्तरगमनमेवेति । स निग्रहाहः। न कश्चित्तत्कथितक्रियमाणप्रसङ्गो न प्रसज्यते । नापि तत्तस्यानुभाषणीयं, न चेदमप्यस्माभिरनुज्ञायते सर्व प्राक् सकृद्वक्तव्यं पश्चादूषणमिति । किन्तु दूषयता यावत् । एवमारचितादिप्रस्थानो द्विरुच्चारणप्रसङगम्प्रदर्शयति सकृदेवाप्रघुष्टो, न। सर्वानुभाषणेस्य प्रदर्शिते विषयदोषस्य वक्तुमशक्यत्वात् । केवलमिदं निःप्रयोजनपराजयाधिकरणं चेत्याह । दूषणवादिना दूषणे वक्तव्ये (16b6) सति यत्र सानुक्रमभाषणं तत्र परपक्षक्षोभेनोपयुज्यते तस्याभिधानमिदन्द्विरुक्तपदोद्भावनञ्चेत्येवं व्यत्याशेन (?सेन) पदविन्यासः कार्य इति तस्मात्सर्वानुक्रमभाषणम्पराजया धिकरणं वाच्यं अत्रेदानीमाक्षपादः सर्वमिदं दूषणमनभ्युपगमेनैव पूर्वपक्षस्यास्माभिः प्रतिव्यूढमिति मन्यमानोऽभ्यनुजानाति । तथास्त्वि' (16b7) ति। स्यादेतदित्येतदेव व्याचष्टे । यतः कुतश्चिदि (16b7)ति साधनार्थविवरणस्य व्याजेन प्रतिज्ञादिष्वर्थविशेषणपरम्परोपक्षेपेण चाप्रसङगात् अनंतरीयकाभिधानं ( 16b7) रूपसिद्धिनामादिव्याख्यानकल्पत्त्वाद्वादिनोऽर्थान्तरगमनमेवेति स तेन निग्रहाहः। प्रासङगिकं ब्रुवाणः किमिति निगृहयत इति चेदाह । नहि कश्चित् क्वचित् क्रियमाणप्रसङगो न प्रयुज्यते । यथोक्तम्प्राक् नैरात्म्यवादिनः। तत्साधने नृत्यगीतादेरपि प्रसङग इति । नापि तद्यद्वादि'ना प्रसङगत्वेन आहितं । तस्य प्रतिवादिनो ऽनुभाषणीय (16b8)। अनुपयुज्यमाण[?न] त्वन्नैवानुभाषणमर्हतीत्यर्थः । तदेतेन यत्पूर्वमुक्तं यदि नाम वादी स्वसाधनार्थविवरणव्याजेने (15bro)त्यादि तदभ्यनुज्ञातं । संप्रति यदुक्सं तत्रापि न सव्वं क्रमेणोच्चारयितव्यं । पश्चाद् दूषणम्वाच्यं द्विरुच्चारणप्रसङगादिति तदनुजानाति। न चेदमप्यस्माभिरित्या(16b8)विना। 73a

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194