Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 148
________________ २-न्यायमतखंडनम् [१३१ परं ब्रुवनिरनुयोज्यानुयोगानिगृहीतो वक्तव्यः। अत्रापि यदि तस्साधनवादिनमभूतैस्तदोषैरुत्तरवाद्यभियुञ्जोत । सोऽस्थाने निर्दोषे निग्रहस्थानस्य नियोक्तोद्भावयिता न भवति । तथा भूतदोष()द्भावनालक्षणस्योत्तरस्याप्रतिपत्तेरितरेणोत्तराभासत्त्वे प्रतिपादितेऽप्रतिभयैव निगृहीत इति नेदमतो निग्रहस्थानान्तरं । अथोत्तरवादिनं साधनदोषमुद्भावयन्तमपरो दोषाभासवचनेनाभियुञ्जीत तस्य तेन भूतदोषत्त्वे प्रतिपादिते साधनाभासवचनेनैव निगृहीत इति । एवमपि नेदं हेत्वाभासेभ्यो 19b भिद्यते । अवश्यं हि विषयान्तरव्याप्त्यर्थ हेत्वाभासा निग्रहस्थानत्वेन वक्तव्यास्तदुक्तावपरोक्तिरनर्थकेति ॥ ॥ सिद्धान्तमभ्युपेत्यानियमात् कथाप्रस'ङ्गोऽपसिाद्धन्त: (न्या० ५।२। अत्रापीत्याद्याचार्यः। यदि तस्य साधनस्य वादिनमभूतैरलीकर्दोषैः सव्यभिचारादिदोषदुष्टं त्वया साधनं प्रयुक्तं ततो निगृहीतोसीत्येवम भियुञ्जीत। तदा सोऽस्थानेऽस्य व्याख्यानं निर्दोषनिग्रहस्थानस्य अस्य विभागादेवास्येति। अभियोक्तेत्यस्य विवृतिरुद्भावयितैति। तथा चालोकदोष'स्याभिधायित्वे सति दोषोभावलक्षणस्योत्तरस्याप्रतिपत्तेरभिधानादप्रतिभयैव करणभूतयोत्तरवादी निगृहीत इति कृत्वा नेदनिरनुयो ज्यानुयोगाभिधानन्निग्रहस्थानमतोऽप्रतिभानिग्रहस्थानात्सकाशान्न निग्रहस्थानान्तरं। कदा चायमप्रतिभया निगृहयत इत्याह (1) इतरेण (19a8) वादिना तदुक्तस्योत्तराभासत्वे प्रतिपादिते अन्यथा न द्वयोरेकस्यापि पूर्ववज्जयपराजयावित्याकूतं । एवं प्रतिवादिसम्बन्धेनास्यापृथग्वच नं प्रतिपाद्य वादिसम्बन्धेनाप्याह (1) अथोत्तरवादिनं भूतं सत्यं साधनदोषं सव्यभिचा (रा)दिकमुद्भावयन्तमपर इति पूर्वपक्षवादी दोषाभासवचनेनाभियुञ्जीत । जात्युत्तरमनैकान्तिकाद्याभासं त्वया प्रयुक्तं। तस्मान्निग (ही) तोसीत्येवं यद्यभियुञ्जीतेत्यर्थः । तदा तस्योद्भावितस्य दोषस्य व्यभिचारादेस्तेनोत्तरवादिना भूतदोषत्वे प्रतिपादिते जात्यु(त)रवत्वे परिहृत इति यावत्। साधनाभासवचनेनैव वादी निगृहयते इति ॥ तस्मादेवमपि प्रतिवादिसम्बन्धेनापि नेदं हेत्वाभासेभ्यो भिद्यत इति पृथग्वाच्यं । अस्यैवोपोद्वलनमवश्यं हि द्वाविंशतिनिग्रहस्थानवादिना हेत्वाभासाः एथग निग्रहस्थानत्वेन वक्तव्याः। किमर्थमित्याह । विषयान्तरप्राप्त्यर्थं (19bI) निरनुयोज्यानुयोगादिभिर्निग्रहस्थानैरनाक्रान्तसङग्रहमपीति अन्यथा द्वाविंशतित्वं निग्रहस्थानानामभ्युपगमम्विरद्धयत इत्यभिप्रायः। तथा च तदुक्तौ तेषां हेत्वाभासानां 81b निग्रहस्थानेनोक्तौ सत्यामपरोक्तिः । अपरस्य निरनुयोज्यानुयोगस्योक्तिनिर (1) र्थका हेत्वाभासवचनेनैव संगृहीतत्वात् ॥०॥

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194