________________
२-न्यायमतखंडनम्
[१३१ परं ब्रुवनिरनुयोज्यानुयोगानिगृहीतो वक्तव्यः। अत्रापि यदि तस्साधनवादिनमभूतैस्तदोषैरुत्तरवाद्यभियुञ्जोत । सोऽस्थाने निर्दोषे निग्रहस्थानस्य नियोक्तोद्भावयिता न भवति । तथा भूतदोष()द्भावनालक्षणस्योत्तरस्याप्रतिपत्तेरितरेणोत्तराभासत्त्वे प्रतिपादितेऽप्रतिभयैव निगृहीत इति नेदमतो निग्रहस्थानान्तरं । अथोत्तरवादिनं साधनदोषमुद्भावयन्तमपरो दोषाभासवचनेनाभियुञ्जीत तस्य तेन भूतदोषत्त्वे प्रतिपादिते साधनाभासवचनेनैव निगृहीत इति । एवमपि नेदं हेत्वाभासेभ्यो 19b भिद्यते । अवश्यं हि विषयान्तरव्याप्त्यर्थ हेत्वाभासा निग्रहस्थानत्वेन वक्तव्यास्तदुक्तावपरोक्तिरनर्थकेति ॥ ॥
सिद्धान्तमभ्युपेत्यानियमात् कथाप्रस'ङ्गोऽपसिाद्धन्त: (न्या० ५।२।
अत्रापीत्याद्याचार्यः। यदि तस्य साधनस्य वादिनमभूतैरलीकर्दोषैः सव्यभिचारादिदोषदुष्टं त्वया साधनं प्रयुक्तं ततो निगृहीतोसीत्येवम भियुञ्जीत। तदा सोऽस्थानेऽस्य व्याख्यानं निर्दोषनिग्रहस्थानस्य अस्य विभागादेवास्येति। अभियोक्तेत्यस्य विवृतिरुद्भावयितैति। तथा चालोकदोष'स्याभिधायित्वे सति दोषोभावलक्षणस्योत्तरस्याप्रतिपत्तेरभिधानादप्रतिभयैव करणभूतयोत्तरवादी निगृहीत इति कृत्वा नेदनिरनुयो ज्यानुयोगाभिधानन्निग्रहस्थानमतोऽप्रतिभानिग्रहस्थानात्सकाशान्न निग्रहस्थानान्तरं। कदा चायमप्रतिभया निगृहयत इत्याह (1) इतरेण (19a8) वादिना तदुक्तस्योत्तराभासत्वे प्रतिपादिते अन्यथा न द्वयोरेकस्यापि पूर्ववज्जयपराजयावित्याकूतं । एवं प्रतिवादिसम्बन्धेनास्यापृथग्वच नं प्रतिपाद्य वादिसम्बन्धेनाप्याह (1) अथोत्तरवादिनं भूतं सत्यं साधनदोषं सव्यभिचा (रा)दिकमुद्भावयन्तमपर इति पूर्वपक्षवादी दोषाभासवचनेनाभियुञ्जीत । जात्युत्तरमनैकान्तिकाद्याभासं त्वया प्रयुक्तं। तस्मान्निग (ही) तोसीत्येवं यद्यभियुञ्जीतेत्यर्थः । तदा तस्योद्भावितस्य दोषस्य व्यभिचारादेस्तेनोत्तरवादिना भूतदोषत्वे प्रतिपादिते जात्यु(त)रवत्वे परिहृत इति यावत्। साधनाभासवचनेनैव वादी निगृहयते इति ॥ तस्मादेवमपि प्रतिवादिसम्बन्धेनापि नेदं हेत्वाभासेभ्यो भिद्यत इति पृथग्वाच्यं । अस्यैवोपोद्वलनमवश्यं हि द्वाविंशतिनिग्रहस्थानवादिना हेत्वाभासाः एथग निग्रहस्थानत्वेन वक्तव्याः। किमर्थमित्याह । विषयान्तरप्राप्त्यर्थं (19bI) निरनुयोज्यानुयोगादिभिर्निग्रहस्थानैरनाक्रान्तसङग्रहमपीति अन्यथा द्वाविंशतित्वं निग्रहस्थानानामभ्युपगमम्विरद्धयत इत्यभिप्रायः। तथा च तदुक्तौ तेषां हेत्वाभासानां 81b निग्रहस्थानेनोक्तौ सत्यामपरोक्तिः । अपरस्य निरनुयोज्यानुयोगस्योक्तिनिर (1) र्थका हेत्वाभासवचनेनैव संगृहीतत्वात् ॥०॥