________________
१३२] .
वादन्यायः २३)। कस्यचिदर्थस्य तथाभावं प्रतिज्ञाय प्रतिज्ञातार्थविपर्ययात्कथाप्रसङ्ग कुर्वतो ऽपसिद्धान्तो विज्ञेयः । यथा न सतो विनाशो नासदुत्पद्यत इति सिद्धान्तम भ्युपेत्त्य पक्षमवस्थापयति । एकान्त(1) प्रकृतिय॑क्ताव्यक्तविकाराणामनुपदर्शनात् । मृदर्थपान] शरावादीनां दृष्टमेकप्रकृतिकत्त्वं तथा चायं व्यक्तभेदः । सुखदुःखमोहसमन्वितो गृह्यते तत्सुखादिभिरेकप्रकृतिरिति । स एवमुक्तवान् पर्यनुयुज्यते । अथ प्रकृतिर्विकार इति कथं लक्षयितव्यं (1) यस्यावस्थितस्य धर्मान्तरनिवृत्तौ धर्मान्तरं प्रवर्त्तते
सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङगोऽपसिद्धान्त इति (19br) सूत्रं सिद्धान्तमभ्युपेत्य पक्षपरिग्रहं कृत्वाऽनियमात् पूर्वप्रकृतार्थोपरोधेन शास्त्रव्यवस्थामनादृत्येति यावत् । कथाप्रसङगोऽर्थान्तरोपवर्णनं । कस्यचिदर्थस्येति धर्मिणो धर्मान्तरं प्रतिज्ञाय प्रतिज्ञातार्थ विपर्ययो विरोधः। इदं उदाहरणेन स्पष्टयति । यथा न सतो वस्तुनो विनाशो (19b2) निरन्वयः केवलं तिरोभावमानं भवति नासत् खरविषाणतुल्यमुत्पद्यते। किन्तहर्याविर्भावतः । सदेवोत्पद्यत इत्येवं कापिल: सिद्धान्तव्यवस्थामादर्श्य पक्षङकरोति । एका प्रकृतिय॑क्तस्याव्यक्तलक्षणा। व्यक्तस्येति महदादेः। अत्र हेतुमाह विकाराणां शब्दादीनामन्वयदर्शनात् । मृदन्वयानामित्यादिदृष्टान्तः। तथा चायमित्युपनयनः [? पनयः] । सुखदुःखमोहसमन्वित (19b3) इति सुखादिमयत्वं दर्शयति । दर्शितञ्च सुखादिमयत्वं व्यक्तस्य पूर्व यथासांख्येनाभिमतं । तत्तस्मात् सुखादिभिरेकप्रकृतिरित्ययं व्यक्तभेदः । इति निगमनं सुखादि
भिरितीत्थंभूतलक्षणे तृतीया। सुखादिप्रकारा सुखादिलक्षणा। एका प्रकृतिरस्य82a त्यर्थः। अन्ये पठन्ति । एका प्रकृतिळक्ता व्यक्तविकाराणामन्वयदर्शनादिति।
एवञ्च व्याचक्षते। एका प्रकृतिरभिन्ना सर्वात्मस्वभावा व्यक्ताव्यक्तविकाराणामन्वयदर्शनात्। ये व्यक्ता विकारा महदादयो ये चाव्यक्ताः प्रधानात्मनि व्यवस्थितास्तेषा'मप्यन्वयदर्शनादिति । अपरे तु पठन्ति । एका प्रकृतिरव्यक्ता। व्यक्तविकाराणामिति व्यक्तरूपाणां विकाराणामिति चाहुः। प्रकृतार्थविपर्य (ये)णेयं यथा प्रवृत्तेति प्रदर्शनाऽर्थमाह (1) स कापिल एवमुक्तवान्पर्यनुयुज्यते (19b4)। अथ प्रकृतिविकार इत्येतदुभयङकथं लक्षयितव्यं । प्रतिपत्तव्यमिति । स एवमनुयुक्तः प्राह । यस्यावस्थितस्य धर्मान्तरनि वृत्तौ धर्मान्तरम्प्रवर्तते सा प्रकृतिरवस्थितरूपा। यत्तत्प्रवृत्तिनिवृत्तिसद्धर्मान्तरं स विकार इति लक्षयितव्यं । परमुक्तवान् साङख्यः प्रकृतार्थपरित्यागदोषेणोपपाद्यते । सोयम्वादी प्रकृतार्थविपर्ययादनियमात् कथाम्प्रसञ्जयति। पूर्वप्रकृतं परित्यजतीत्यर्थः । कथमित्याह