________________
२-न्यायमतखंडनम्
[१३३ सा प्रकृतिः । यत्तद्धर्मान्तरं स विकार इति सेयं प्रकृतार्थविपर्ययादनियमात् कथां प्रसज्जयति । प्रतिज्ञातञ्चानेन नासदाविर्भवति' न सत्तिरोभवतीति सदसदतोश्च तिरोभावाविर्भावावन्तरेण न कस्यचित्प्रवृत्त्युपरमः प्रवृत्तिर्वेत्येवं प्रत्यवस्थिते यदि सत श्रात्महानमसतश्चात्मलाभ 'मभ्युपैत्यपसिद्धान्तो भवति । अथ नाभ्युपैति पक्षोऽस्य न सिध्यतीति । इहापि न कश्चिदनियमात्कथाप्रसङ्गः । यत्तेनोपगतन्नासदुत्पद्यते न सद्विनश्यतीति तस्य समर्थ ' नापदमुक्तमेकप्रकृतिकमिदं व्यक्तमनुपदर्शनादिति । तत्रैका प्रकृतिः सुखदुःखमोहस्तदविभक्तयो
(1) प्रतिज्ञातं खल्वनेनेति (19b5) पूर्वोक्तं स्मर' यति । यद्येवङको दोष इत्याह । सदसतोरित्यादि । सतस्तिरोभावमेकान्तेन विनाशमन्तरेण न कस्यचिद्धर्मस्य प्रवृत्युपरमः सिध्यति । केन चिद्विरूपेणावस्थाने सति स तिरोहितोऽङ्गस्तस्यावस्थितस्यात्मभूतः परभूतो वा भवेत् । आत्मभूतत्वे तिरोहितादव्यतिरेकात् तिरोहितवदवस्थितस्याप्यनवस्थानं' अवस्थितवच्च तदव्यतिरेकतस्तिरोहितस्याप्यवस्थानमासं[? शं]क्यते । परभूतत्वेपि कथमनन्वयो न विनाशो न हन्यस्यावस्थानेऽन्यदवतिष्ठते । अन्यो वान्यस्यान्वयश्चैतन्यस्याऽपि घटान्वयप्रसङ्गात् । तथा नासत आविर्भावमुत्पादमन्तरेण कस्यचिद्धर्मस्य प्रवृत्तिर्वा सिध्यति ।
ननु च विद्यमानमेव धर्मान्तरमाविर्भाव्यते । ग्रहणविषयभावमापाद्यते । 82b न विद्यमानस्य क्रियास्त्युपादानमिति उपलब्धिर्वा विद्यमानत्वात् । न कारकजन्यत्वमित्येवं प्रत्यवस्थितः प्रतिषिद्धः साङ्ख्यः । क्वचित् सप्तम्यापद्यते । तत्र प्रत्य' वस्थिते प्रतिवादिनि सतीति व्याख्येयं । यदि स कापिलः सतो धर्मस्यात्महानमसतश्चात्मलाभमभ्युपैति तदानीमपसिद्धान्तो भवति। अभ्युपगमविरुद्धस्य प्रतिज्ञा' नादपसिद्धान्तसंज्ञकं निग्रहस्थानमस्य भवतीत्यर्थः । अथ सत आत्महानमसतश्चात्मलाभन्नाभ्युपैति । एवमप्येकप्रकृतिर्विकाराणामिति योयं पक्षः पूर्व्वप्रतिज्ञातः सोस्य न सिध्यति प्रकृतिविकारलक्षणस्यानवस्थितत्वात् । तथा हि तयोर्लक्षणं यस्यावस्थितस्येत्यादिनोक्तं । तस्य चायोगः । सदसतोश्चे ( 19b6 ) त्यादिना प्रतिपा ( 1 ) दत इत्येतावा'न्परग्रन्थः । अत्र सम्प्रत्याचार्यः प्रतिविधत्ते । इतोपि प्रतिविदध्मह इति शेषः । न कश्चिदनियमात् सिद्धान्तनीतिविरोधात् साङ्ख्यस्य प्रसङ्गः । तस्माद्यत्तेनोपगतं नासदुत्पद्यते न स ( त् ) तिरोभवतीति तस्य समर्थनादमुक्तं । किमुक्तमित्याह (1) एकप्रकृतिकमिदं व्यक्तमन्वयदर्शनादिति ( 19b8 ) । तत्रैकेत्येतदेव विभजति । तदविभक्तयोनिकमिदं