________________
वादन्यायः
१३४] निकमिदं व्यक्तं तदन्वयदर्शनात् । व्यक्तस्य तत्स्वभावताऽभेदोपलब्धिरिति । सुखादोनामुत्पत्तिविनाशाभ्युपगमाभावात् सर्वस्य तदात्म
कस्य नोत्पत्तिविनाशाविति सिद्धं भवति । अत्र तदुक्तस्य हेतोर्दोषमनुभाव्य 20a विकारप्रकृतिलक्षणं पृच्छन् स्वयमयं पृकता (?) सत्त्वेनानियमात
कथां प्रवर्त्तयति । तत्रेदं स्याद्वाच्यं व्यक्तं नाम प्रवृत्तिनिवृत्तिधर्मकं न तथा सुखादयः । व्यक्तस्य सुखाद्यन्वये सुखादिस्वभावता प्रवृत्तिनि'. वृत्तिधर्मातालक्षणमवहोय( ते) इति । न तद्धितसुखादिस्वभावताव्यक्तलक्षणविरोधादिति । सुखाद्यन्वयदर्शनादित्यसिद्धो हेतुरिति । एवं हि ।
व्यक्तं । ते सुखादयोऽविभक्ताः अपृथग्भूता योनिः स्थानमधिकरणं यस्य व्यक्तस्य तत्तदविभक्तयोनिकं किङकारणं तदन्वयदर्शनात् । ते(:) सुखादिभि"रन्वयदर्शनात् तादात्म्योपलम्भात् । ततः किं सिद्धमित्याह व्यक्तस्य तत्स्वभावता सुखादिस्वभावता। तत्र स्वभावतैव कथनिश्चितेत्याह। अभेदोपलब्धे (19b8)रिति । सुखादिभिः शब्दादीनामनानात्त्वदर्शनादिति यावत् । एवमपि
किं सिद्धम्भवतीत्याह । सर्वस्य (19b9) शब्दादेविकारग्रामस्य सुखाद्या83a त्मकस्य नोत्पत्तिविनाशाविति सम्भवति । कस्मादित्याह (1) सुखादीनामुत्पत्ति
विनाशाभावात् । सुखाद्यव्यतिरेकात्तदात्मवच्छब्दादयोपि नित्याः सिद्धा भवन्ति । तथा च यत्पूर्वमभ्युपगतं न श (?स) तो विनाशो नासदुत्पद्यत इति । तत्समर्थि'तं भवति । अत्रैवं कापिलेन स्वोपगमे सथिते सति तदुक्तस्य तेन साङख्येनोक्तस्य हेतोरन्वयदर्शनस्य दोषमसिद्धतादिकमनुद्भाव्य स एवमुक्तवान् पर्यनुमुज्यते। अथ प्रकृतिनिर्विकार इति कथं लक्षयितव्यमित्येवं विकारप्रकृत्योर्लक्षणं पृच्छन् स्वयमयमक्षपादः प्रकृतासम्बन्धेनानियमात् प्रकृतार्थोपरोधात् कथाम्प्रवत यति । यस्मात् प्रकृतिविकारयोरिह लक्षणं न प्रकृतमेव तत्किन्तदभिधाय पर्यनुयुज्यते तस्मादप्रस्तुतपर्यनुयोक्तृत्त्वादक्षपाद एव निग्रहार्ह इति भावः। किन्तहर्यत्रोत्तरसम्बद्ध वाक्यमित्याह (1)तत्रान्वयदर्शनहेताविदं स्याद् वाच्यं (20a1)। व्यक्तन्नाम प्रवृत्तिनिवृत्तिधर्मकं न तथा व्यक्तवत् सुखादयः प्रवृत्तिनि वृत्तिधर्मका इति लिङगवचनपरिणामेन सम्बन्धः। तथा च व्यक्तस्य सुखाद्यन्वयेऽस्य व्याख्यानं सुखादिस्वभावतायां सत्यां प्रवृत्तिनिवृत्तिधर्मतालक्षणं व्यक्तस्यावहीयते। तदव्यतिरेकेण तेषामपि सदावस्थानात्। इति तस्मान्न तद्रहितसुखादिस्वभावता व्यक्तस्य। ताभ्याम्प्रवृत्तिनिवृत्तिभ्यां रहितास्तथोक्तास्ते च सुखादयश्च । ते स्वभावो यस्य तस्य भावस्तरहितसुखादिस्वभावता। कस्मादित्याह (1) व्यक्तलक्षणविरोधादि(2012)