________________
२-न्यायमतखंडनम्
[१३५ तस्य साधनदोषोद्भावनेन पक्षो दूषितो भवति । सोऽनुपसंहृत्य साधनदोषकथां प्रतारयन् स्वदोषं परत्रोपक्षिपति । अयमेव दोषोऽनेन प्रकारेणोच्यत इति चेत् । एष नैमित्त [ ? त्ति ]कानां विषयो न लोकः शब्दैरप्रतिपादितमर्थ प्रतिपत्तुं समर्थ इति । स एवायं भण्डालेख्यधि[ ? भण्डालेख्य ] न्यायः । अत्रापि यथोक्तन न्यायेन पूर्वकस्यासाधनाङ्ग
ति व्यक्तस्य लक्षणं प्रवृत्तिनिवृत्तिधर्मकत्वं तस्य तद्विपरीतः। सुखादिभिः परस्परपरिहारस्थितिलक्षणो विरोधः। तथा च साधनन्न सदावस्थितरूपसुखादिस्वभावमिदं ते व्यक्तं प्राप्नोति तद्विपरीतधर्मत्वात् । क्षेत्रज्ञवत् न च सुखादिव्यक्तयोरेक- 83b स्वभावता। परस्परविरुद्धधर्माध्यासितत्वात् । सत्त्वरजस्तमसामिव चैतन्यानामिव वा। एवञ्च व्यक्तस्य सुखादिस्वभावतायोगे सुखाद्यन्वयदर्शन सिद्धो हेतुः । कस्मादिदं सम्बद्धं दूषणमित्याह । एवं हि तस्य साङख्यस्य साधनदोषोद्भावनेन हेत्वसिद्धताचोदनेनैकप्रकृतीदं व्यक्तमित्ययं पक्षो दूषितो भवनि (20a3)। स पुनर्नैयायिकः साधने दोषमसिद्धताख्यमनुपसंहृत्यापदर्य अप्रकृतप्रकृतिविकारलक्षणपर्यनुयोगेन कथां प्रतानयत्यविमुञ्चं स्वदोषमन्यमात्कथा प्रसङगं परत्र साङख्ये तपस्विन्युपक्षिपति। पर आहायमेवासिद्धताख्यो दोषोनेन प्रकारेण प्रकृतिविकारलक्षणपर्यनुयोगद्वारेणास्माभिरप्युच्यत इति । आचार्य आह। एष नैमित्तिकानां (20a3) ज्योतिर्ज्ञानविदां विषयः। नायं त्वदुक्तस्य वाक्यस्यार्थ इति यावत् । यतो न लोकः शब्दरप्रतिपादितमर्थ प्रति पत्तुं समर्थः अर्थप्रकरणादिभिविनेत्यध्याहारः । तस्मात् स एवायं (20a4) प्रतिज्ञाविरोधप्रस्तावे निर्दिष्टो भण्डालेख्यन्यायोत्राप्यपसिद्धान्तो न केवलं तत्रेत्यऽपि शब्दः। यथा हि भण्डाः प्राकृतान् विस्मापयन्तः शीघूमर्द्धचन्द्रा. कारामल्पीयसी रेखामालिख्य भणन्ति पश्यत तालमात्रेण हस्ती विलिखितोस्माभिरिति तत्र केचित् मन्दमतयस्तथैव प्रतिपद्यन्ते। केचिद् दुर्विदग्धधियः पर्यनुयुञ्जते। ननु नोस्य कर्णपाददन्तादयः प्रतीयन्ते तत्कथमयन्तद्विकलो हस्ती भवतीति । ते पु नराहु ः। सत्यं न प्रतीयन्ते। अस्माभिस्तु समाप्तसकलकलः करेणुरयं लिखितः । तास्तस्य सकलाः कलाः सलिल इव मग्नत्वानोपलभ[?भ्यन्ते कुम्भकदेशमात्रन्त्विदमस्योप लभ्यत इति तथाजातीयकमेतत् परस्यापि धाष्टर्यविजृम्भितं। यदि 84a नाम नायमर्थोस्माद् बाहयात् प्रतीयते तथाप्यनेन प्रकारेणोच्यत इति । अपि चोच्यताम'यमेवार्थोनेन प्रकारेण तथाप्यसिद्धस्य हेत्वाभासेष्वन्तर्भावात् तद्वचनेनैवाभिधानमिति नापसिद्धान्तः पथगुपादेयो भवेदित्येतदुपसंहारव्याजेनाह। यथोक्तेन न्यायेने (20a4)त्यादि ॥०॥