________________
वादन्यायः
१३६] स्यासिद्धस्य हेतोरभिधाना देव निग्रहो नापि नियमात्कथाप्रसङ्गादिति । इदमपि हेत्वाभासेष्वन्तर्भावान्न पृथग्वाच्यं ॥ त् ॥
हेत्वाभासाश्च यथोक्ताः (न्या० ५।२।२४) । हेत्वाभासाश्च निग्रहस्थानानि किम्पुनर्लक्षणान्तरयोगाद्धत्वाभासा निग्रहस्थानभावमापद्यन्ते । यथा प्रमाणानि प्रमेयत्वमित्यत आह । यथोक्तहेत्वाभासलक्षणेनैव निग्रहस्थानता च इति । अत्रापि यथोक्तत्त्वादिद (?) मेव किन्ते यथालक्षितप्रभे
हेत्वाभासाश्च यथोक्ता इति सूत्रं । इदमाक्षेपपूर्वकं वात्स्यायनो व्याचष्टे । किं । पुनरिति (20a6) हेत्वाभासलक्षणाद्यदन्यल्लक्षणं तेन सम्बन्धा निग्रहस्थानत्वमापद्यन्ते। किमिवेत्याह । यथा प्रमाणानि प्रमेयत्त्वं लक्षणान्तरवसा [? वसादापद्यन्त (20a6) इति वर्त्तते तानि हिप्रमिति क्रियाया (:) कारणत्वात्। प्रमाणानि प्रमाणान्तरेण तु यदा प्रमीयन्ते तदा कर्मत्वात प्रमेयानि । तत एव पदार्थत्वात् प्राप्तःसंशयः। अत्राह मुनिना यथोक्त इति । अस्यैव विवरणं । यथोक्तहेत्वाभासलक्षणेनैव निग्रहस्थानभाव इति। इदमुक्तम्भवति। सव्यभिचारविरुद्धप्रकरणस (म) साध्यसमातीतकाला (न्या० सू०१।२।४) इति हेत्वाभासा इति प्रभेदमुपक्रम्य यत्प्रत्येकं लक्षणमुक्तं । अनैकान्तिक: सव्यभिचारः (न्या० सू०१।२।५) सिद्धान्तमभ्युपेत्य तद्विरोधाद्विरुद्धं (न्या० सू०१।२।६)। यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्ट: प्रकरण समः (न्या० स० श१७) साध्याविशिष्टः साध्यत्वात साध्यसमः (न्या० स० शश८) कालात्ययापदिष्ट: कालातीत (न्या० सू० १।२।९) इति तेनैव लक्षणेनैषान्निग्रहस्थानत्त्वं न पुनस्तत लक्षणान्तरमपेक्ष्यत इति। अत्रापी (20a7)त्याचार्यः। कथञ्चिन्त्यमित्याह। किन्ते यथा भवद्भिर्लक्षितप्रभेदास्तथैव ते भवन्त्याहो
स्विदन्यथेति (20a7)। लक्षितः प्रभेदो येषामिति विग्रहः। तत्तहि किन्त (द्) 84b चिन्त्यत इत्याह तत्तु चिन्त्यमानमिहातिप्रसज्यत इति न प्रतन्यते। इदमेवागरितं ।
विदन्त्येव केचिदत्र हेत्वाभासा एव न युज्यंते केचित्तु हेत्वाभासा अपि न सङग्रहीता इयस्मिश्च विचारे हेत्वाभास वार्तिकं सकलमवतारयितव्यमिति शास्त्रान्तरमेव भवेत् । अवदातमतयस्त्वस्मद्विहितहेत्वाभासलक्षणविपर्ययेण दूरान्तरत्वात्तद् वैसशं(?)। तस्मादुपेक्ष व युज्यत इति । तथापि मन्दमतिविबोधनायापि शास्त्रमुच्यत इति । कालातीतप्रकरणसमयोस्तावद्धत्वाभासत्वं यथा नोपपद्यते तथा वर्ण्यते। तत्र कालात्ययापदिष्ट: कलातीतः तदिह
यकानामपास्य मतमाचार्यदिङनागपादर्भाषितत्वादिदानीन्तना वात्स्यायनादयोमुमेव स्थिपक्षमाहुः । तत्रैवम्बूमः। कालात्ययेन युक्तो यस्यार्थंकदेशोऽपदिश्यमानस्य स कालात्ययापदिष्टः