________________
२–न्यायमतखंडनम्
[ १३७
कालातीत इत्युच्यते । निदर्शनं (1) नित्यः शब्दः संयोगव्यंग्यत्वाद्रूपवत् । प्रागूर्ध्वं च व्यक्तेरवस्थितं रूपं प्रदीपघटसंयोगेन व्यज्यते । तथा शब्दो व्यवस्थितो भेरीकर्णसंयोगेन दारुपर्णयोगेन वा व्यज्यते । तस्मात्संयोगव्यंग्यत्वान्नित्यः शब्द इति । अयमहेतुः कालात्ययापदेशात् व्यंजकस्य संयोगस्य कालं न व्यंग्यस्य रूपस्य व्यक्तिरत्येति सति प्रदीपसंयोगे रूपस्य ग्रहणं भवति । न निवृत्तसंयोगे रूपङ्गृहयते । निवृत्ते तु दारुपर्ण संयोगे दूरस्थेन शब्दः श्रूयते विभागकाले नेयं शब्दस्य व्यक्तिः संयोगकालमत्येतीति संयोगनिमित्ता भवति । कारणाभावाद्धि कार्या भाव इति । नन्वयमनैकान्तिक एव । संयोगव्यंग्यत्वादिति । अनित्यमपि संयोगेन व्यज्य - मानं दृष्टं यथा घट इति । न । संयोग व्यंग्यत्वेनावस्थानस्य साध्यत्वान्न ब्रूमो 85a नित्यः शब्द इति । अपि त्ववतिष्ठते शब्द इत्ययं प्रतिज्ञार्थस्तदा च संयोगव्यंग्यत्वादित्ययं हेतुरनैकान्तिको न हचनवस्थितं किञ्चित्संयोगेनाभिव्यज्यमान (:) कथमिति तदनेन प्रकारेण संयोगव्यङ्ग्यत्वमेव शब्दस्य प्रतिषिद्धयत इति नायमसिद्धाद् व्यावर्तते । अन्यथानेयं शब्दस्य व्यक्तिः संयोगिकालमत्येतीति न संयोगनिमित्ता' भवतीति । वचनस्य कोर्थ इति वक्तव्यं । स्याद् बुद्धिः सर्वदाधर्मिण्यविद्यमानस्यासिद्धत्वं । अयन्तु न सर्वथा धर्मिण्यसिद्धो येनोत्पत्तिकाले संयोगव्यङ्ग्यत्वमस्ति । न तूपलब्धिकाल इति । तदुक्तं । एकदेशासिद्धस्यापि असिद्धत्त्दपरिज्ञानात् । यथा नित्याः परमाणवो गन्धवत्वात् । श्वेतनाश्च तरवः स्वापादिति । यश्चा' नित्यः शब्द इति प्रतिजानीते स कुठारदारुसंयोगादेः शब्दस्योत्पत्तिमेव प्रतिपद्यते । न पुनरवस्थितस्याभिव्यक्तमिति व्यक्तमस्यान्यतरासिद्ध त्वं । अथ संयोगे सत्युपलब्धेरिति हेत्वर्थाभ्युपगमान् नायमसिद्धो हेतुरिति समाधीयते । तथापि तलतेजोवत्तिसंयोगे कुलालमृत्पिण्डदण्डसं 'योगे च सति दीपघटादयः समुपलभ्यन्ते । न च तेषान्तत्र संयोगाप्राप्त्यवस्थानमित्यनेनानैकान्तिक एव प्राप्नोतीति न कालातीतः । . तदुत्तरकालमप्यवस्थाने साध्ये' समुदायान्तरव्यय ( ? ) वादिनो विरुद्धः । सपक्षाभावादेव तत्र वृत्तेरभावात् । क्षणस्थितिधर्मवति च धर्मिणि । रूपादिके विद्यमानत्वात् । स्थिरभाववादिनन्तु प्रति प्रतिबन्धवैकल्यं साधनवैफल्यञ्च । अनङ्गीकृतसिद्धान्ते तु न्यायवादिनि प्रतिवादिनि पूर्वपक्षप्रतिपादितो दोष इति । एवमुदाहरणान्तरेपि दूषणमुत्प्रेक्ष्य वक्तव्यमिति ॥ ०॥
85b
यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः । ( न्या० सू० १।२।७ ) विमर्शाधिष्ठानौ पक्षप्रतिपक्षावनवसितौ प्रकरणन्तस्य चिन्तामविमर्शात् प्रभृति प्राङनिर्णयात् परीक्षणं सा यत्र कृता स निर्णयार्थं प्रयुक्तोभयपक्षसाम्यात् प्रकरणमनतिवर्त्तमानः प्रकरणसमो न निर्णयाय कल्प्यते । कस्मात्पुनः प्रकरणचिन्ता तत्त्वानुपलब्धेः । यस्मादुपलब्धे तत्वेर्थे निवर्त्तते चिन्ता तस्मात्सामान्येनाधिग' तस्य या