________________
86a
१३८]
वादन्यायः विशेषतोऽनुपलब्धिः सा प्रकरणचिन्तां प्रयोजयतीति। उदाहरणमनित्यः शब्दो नित्यधर्मानुपलब्धः । अनुपलभ्यमाननित्यधर्मकमनित्यन्दृ ष्टं स्थाल्यादि । यत्र समानो धर्मः संशयकारणहेतुत्वेनोपादीयते संशयसमः सव्यभिचार एव । या तु विमर्शस्य विशेषापेक्षतोभयपक्षविशेषानुपलब्धौ सा प्रकरणम्प्रवर्तयति । यथा च शब्दे नित्यधर्मो नोपलभ्यते तथानित्यधर्मोपि । सेयमुभयपक्षविशेषानुपलब्धिः प्रकरणचिन्ताम्प्रयोजयति कम्विपर्यये प्रकरणनिवृत्तेः । यदि नित्यधर्मः शब्दे गृहचेत न स्यात्प्रकरणं । यदि (न) नित्यधर्मो गृहयेत एवमपि निवर्त्तते प्रकरणं । सोयं हेतुरुभौ पक्षौ प्रवर्तयन्नान्यतरस्य निर्णयाय कल्प्यत इति । न त्वयं साध्याविशिष्ट एव। नाविशिष्टः। तस्यैव प्रकरणप्रवृत्तिहेतोर्द्धर्मस्य हेतुत्वेनोपादानात्। यत्र साध्येन समानो धर्मों हेतुत्वेनोपादीयते स साध्याविशिष्टः। यत्र पुनः प्रकरणप्रवत्तिहेतुरेव स प्रकरणसम इति । अत्रापि नित्यानित्यधर्मानपलम्भद्वयादेव प्रकरणचिन्ता। न त्वेकस्मात। विपर्यये प्रकरणनिवत्तिरिति वचनात । तद्यदि नित्यानित्यधर्मानपलब्धेरिति हेत. स्यात। स्यात प्रकरणसमः। तदेकधर्मान'पलब्धस्तूपादाने कथं प्रकरणसम इत्यभिधानीयं । उभयधर्मानुपलम्भोपादानेपि सपक्षविपक्षयोरनुवृत्तिव्यावृत्योरनिश्चयादसाधरणानकान्तिको' भवतीति कथमस्य हेत्वा (भा)सान्तरत्वं । भवत नामैकधर्मानपलब्धिरेव हेतः प्रकरणसमः । तथापि नित्यशब्दवाद्यवश्यमेव व्यामोहान्नित्यधर्मान प्रतिपद्यत इति प्रतिवाद्यसिद्धीयं भवति। अथ प्रमाणेन नित्यधर्मप्रतिक्षेपान्नित्यधर्मानुपलब्धिः प्रतिपाद्यते। तदापि निश्चायकत्वात सम्यगज्ञानहेतरवायं इति कथं हेत्वाभासः प्रकरणसमः। तदा हि विशेषोपलब्धिरेव हेत्वर्थो व्यवतिष्ठते। विशेषाश्च नित्यस्य कृतकत्वादयः। न च तत्कृता प्रकरणचिन्ता विपर्यये प्रकरणनिवृत्तरिति वचनात् । अपि च नित्यधर्मानपलब्धेरिति किमयं प्रसज्यप्रतिषेधः किम्वा प्रतियोगिविधानं (1) यदि प्रसज्यप्रतिषेधस्तदा प्रमेयत्वादिवत् साधारणानकान्तिकोयं नित्यधर्मोपलब्धिः प्रतिषेधमात्रस्यानित्यत्वरहितेष्वसत्स्वपि सम्भवात् । अथ प्रतियोगिविधानन्तदाप्यनन्तरों'दितया युक्त्या हेतुप्रतिरूपत्वायोगः। अन्यस्त्वन्यथेदं सूत्रद्वयं व्याचष्टे । यो हेतुर्हेतुकालेऽपदिष्टोऽत्येत्यपैति । कस्मादपति । प्रत्यक्षेणागमेन उभयेन वा पीड्यमानः स कालमतीत इति कालातीत इत्युच्यते । कुतः पुनः
प्रत्यक्षागमविरोधो लभ्यत इति चेत् । चतुर्लक्षणो हेतुरिति वचनात् । तथाहि 86b पूर्ववच्छेष वत्सामान्यतो दृष्ट (न्या० सू० १।२।५)ञ्चेत्यत्र चतूरूपो हेतु
रिष्टः । पूर्ववन्नाम साध्ये व्यापकं । शेषवदिति तत्समास्ति । सामान्यतश्च दृष्टञ्च शब्दादविरुद्धञ्चेति। तथा भाष्यवचनमप्यस्ति ।' “यत्पुनरनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासः स" इति। तदेवं त्ररूप्ये सति प्रत्यक्षागमाभ्यां यो वाध्यते